Loading...
ऋग्वेद मण्डल - 4 के सूक्त 46 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 4/ सूक्त 46/ मन्त्र 7
    ऋषिः - वामदेवो गौतमः देवता - इन्द्रवायू छन्दः - गायत्री स्वरः - षड्जः

    इ॒ह प्र॒याण॑मस्तु वा॒मिन्द्र॑वायू वि॒मोच॑नम्। इ॒ह वां॒ सोम॑पीतये ॥७॥

    स्वर सहित पद पाठ

    इ॒ह । प्र॒ऽयान॑म् । अ॒स्तु॒ । वा॒म् । इन्द्र॑वायू॒ इति॑ । वि॒ऽमोच॑नम् । इ॒ह । वा॒म् । सोम॑ऽपीतये ॥


    स्वर रहित मन्त्र

    इह प्रयाणमस्तु वामिन्द्रवायू विमोचनम्। इह वां सोमपीतये ॥७॥

    स्वर रहित पद पाठ

    इह। प्रऽयानम्। अस्तु। वाम्। इन्द्रवायू इति। विऽमोचनम्। इह। वाम्। सोमऽपीतये ॥७॥

    ऋग्वेद - मण्डल » 4; सूक्त » 46; मन्त्र » 7
    अष्टक » 3; अध्याय » 7; वर्ग » 22; मन्त्र » 7

    अन्वयः - हे इन्द्रवायू ! यथेह वां प्रयाणमस्तु यथेह वां सोमपीतये विमोचनमस्तु तथैव वायुविद्युतौ वर्त्तेत इति विजानीतम् ॥७॥

    पदार्थः -
    (इह) अस्मिन् (प्रयाणम्) गमनम् (अस्तु) (वाम्) युवयोः (इन्द्रवायू) वायुविद्युद्वद्वर्त्तमानौ राजाऽमात्यौ (विमोचनम्) (इह) (वाम्) युवयोः (सोमपीतये) सोमस्य पानाय ॥७॥

    भावार्थः - हे मनुष्या ! यो नित्यमितस्ततः कार्य्यसिद्धये गच्छेदागच्छेत्तमेव राजानं मन्यध्वमिति ॥७॥ अत्रेन्द्रवायुगुणवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिरस्तीति वेद्यम् ॥७॥ इति षट्चत्वारिंशत्तमं सूक्तं द्वाविंशो वर्गश्च समाप्तः ॥

    इस भाष्य को एडिट करें
    Top