ऋग्वेद - मण्डल 4/ सूक्त 46/ मन्त्र 6
इन्द्र॑वायू अ॒यं सु॒तस्तं दे॒वेभिः॑ स॒जोष॑सा। पिब॑तं दा॒शुषो॑ गृ॒हे ॥६॥
स्वर सहित पद पाठइन्द्र॑वायू॒ इति॑ । अ॒यम् । सु॒तः । तम् । दे॒वेभिः॑ । स॒ऽजोष॑सा । पिब॑तम् । दा॒शुषः॑ । गृ॒हे ॥
स्वर रहित मन्त्र
इन्द्रवायू अयं सुतस्तं देवेभिः सजोषसा। पिबतं दाशुषो गृहे ॥६॥
स्वर रहित पद पाठइन्द्रवायू इति। अयम्। सुतः। तम्। देवेभिः। सऽजोषसा। पिबतम्। दाशुषः। गृहे ॥६॥
ऋग्वेद - मण्डल » 4; सूक्त » 46; मन्त्र » 6
अष्टक » 3; अध्याय » 7; वर्ग » 22; मन्त्र » 6
अष्टक » 3; अध्याय » 7; वर्ग » 22; मन्त्र » 6
विषयः - अथ सूर्य्ययुक्तवायुविषयमाह ॥
अन्वयः - हे सजोषसेन्द्रवायू ! योऽयं दाशुषो गृहे सुतस्तं देवेभिस्सह यथा पिबतं तथैव सूर्य्यवायू सर्वेभ्यो रसं पिबतः ॥६॥
पदार्थः -
(इन्द्रवायू) सूर्य्यवायू इवाध्यापकोपदेशकौ (अयम्) (सुतः) निष्पादितः (तम्) (देवेभिः) विद्वद्भिर्दिव्यैः पदार्थैर्वा (सजोषसा) समानप्रीतिकामौ (पिबतम्) (दाशुषः) दातुः (गृहे) ॥६॥
भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। यथाऽर्कपवनौ सर्वेषामुपकारं सततं कुरुतस्तथैव विद्वद्भिरनुष्ठेयम् ॥६॥
इस भाष्य को एडिट करें