Loading...
ऋग्वेद मण्डल - 5 के सूक्त 10 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 10/ मन्त्र 7
    ऋषिः - गय आत्रेयः देवता - अग्निः छन्दः - निचृत्पङ्क्ति स्वरः - पञ्चमः

    त्वं नो॑ अग्ने अङ्गिरः स्तु॒तः स्तवा॑न॒ आ भ॑र। होत॑र्विभ्वा॒सहं॑ र॒यिं स्तो॒तृभ्यः॒ स्तव॑से च न उ॒तैधि॑ पृ॒त्सु नो॑ वृ॒धे ॥७॥

    स्वर सहित पद पाठ

    त्वम् । नः॒ । अ॒ग्ने॒ । अ॒ङ्गि॒रः॒ । स्तु॒तः । स्तवा॑नः । आ । भ॒र॒ । होतः॑ । वि॒भ्व॒ऽसह॑म् । र॒यिम् । स्तो॒तृऽभ्यः॑ । स्तव॑से । च॒ । नः॒ । उ॒त । ए॒धि॒ । पृ॒त्ऽसु । नः॒ । वृ॒धे ॥


    स्वर रहित मन्त्र

    त्वं नो अग्ने अङ्गिरः स्तुतः स्तवान आ भर। होतर्विभ्वासहं रयिं स्तोतृभ्यः स्तवसे च न उतैधि पृत्सु नो वृधे ॥७॥

    स्वर रहित पद पाठ

    त्वम्। नः। अग्ने। अङ्गिरः। स्तुतः। स्तवानः। आ। भर। होतः। विभ्वऽसहम्। रयिम्। स्तोतृभ्यः। स्तवसे। च। नः। उत। एधि। पृत्ऽसु। नः। वृधे ॥७॥

    ऋग्वेद - मण्डल » 5; सूक्त » 10; मन्त्र » 7
    अष्टक » 4; अध्याय » 1; वर्ग » 2; मन्त्र » 7

    अन्वयः - हे होतरङ्गिरोऽग्ने ! स्तुतः स्तवानः सँस्त्वं नो विभ्वासहं रयिमा भर स्तोतृभ्यः स्तवसे च नोऽस्मानाभरोत पृत्सु नो वृध एधि ॥७॥

    पदार्थः -
    (त्वम्) (नः) अस्मान् (अग्ने) विद्वन् (अङ्गिरः) प्राण इव प्रियः (स्तुतः) प्रशंसितः (स्तवानः) प्रशंसन् (आ) (भर) (होतः) दातः (विभ्वासहम्) यो विभूनासहते तम् (रयिम्) (स्तोतृभ्यः) (स्तवसे) स्तावकाय (च) (नः) अस्मान् (उत) (एधि) (पृत्सु) सङ्ग्रामेषु (नः) (वृधे) वर्द्धनाय ॥७॥

    भावार्थः - विद्यार्थिनो विदुष एवं प्रार्थयेर्युर्हे भगवन्तो यूयमस्मान् ब्रह्मचर्य्यं कारयित्वा सुशिक्षां विद्यां दत्त्वा सङ्ग्रामान् जित्वाऽस्माकं वृद्धिं सततं कुरुतेति ॥७॥ अत्राग्निविद्वद्विद्यार्थिगुणवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥ इति दशमं सूक्तं द्वितीयो वर्गश्च समाप्तः ॥

    इस भाष्य को एडिट करें
    Top