ऋग्वेद - मण्डल 5/ सूक्त 10/ मन्त्र 6
नू नो॑ अग्न ऊ॒तये॑ स॒बाध॑सश्च रा॒तये॑। अ॒स्माका॑सश्च सू॒रयो॒ विश्वा॒ आशा॑स्तरी॒षणि॑ ॥६॥
स्वर सहित पद पाठनु । नः॒ । अ॒ग्ने॒ । ऊ॒तये॑ । स॒ऽबाध॑सः । च॒ । रा॒तये॑ । अ॒स्माका॑सः । च॒ । सू॒रयः॑ । विश्वाः॑ । आसाः॑ । त॒री॒षणि॑ ॥
स्वर रहित मन्त्र
नू नो अग्न ऊतये सबाधसश्च रातये। अस्माकासश्च सूरयो विश्वा आशास्तरीषणि ॥६॥
स्वर रहित पद पाठनू। नः। अग्ने। ऊतये। सऽबाधसः। च। रातये। अस्माकासः। च। सूरयः। विश्वाः। आशाः। तरीषणि ॥६॥
ऋग्वेद - मण्डल » 5; सूक्त » 10; मन्त्र » 6
अष्टक » 4; अध्याय » 1; वर्ग » 2; मन्त्र » 6
अष्टक » 4; अध्याय » 1; वर्ग » 2; मन्त्र » 6
विषयः - पुनस्तमेव विषयमाह ॥
अन्वयः - हे अग्ने ! यो सबाधसश्चास्माकासः सूरयो न ऊतये रातये च विश्वा आशास्तरीषणि नोऽस्मान्नू प्रापयेयुस्ते परोपकारिणो जायन्ते ॥६॥
पदार्थः -
(नू) सद्यः (नः) अस्माकम् (अग्ने) विद्वन् राजन् (ऊतये) रक्षाद्याय (सबाधसः) बाधेन सह वर्त्तमानाः (च) (रातये) दानाय (अस्माकासः) अस्माकमिमे (च) (सूरयः) (विश्वाः) सकलाः (आशाः) दिशः (तरीषणि) तरणे ॥६॥
भावार्थः - त एव पण्डिता ये विमानादीनि यानानि निर्माय भूगोलेऽभितो भ्रामयन्ति ते प्रशंसितदाना भवन्ति ॥६॥
इस भाष्य को एडिट करें