Loading...
ऋग्वेद मण्डल - 5 के सूक्त 12 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 12/ मन्त्र 6
    ऋषिः - सुतम्भर आत्रेयः देवता - अग्निः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    यस्ते॑ अग्ने॒ नम॑सा य॒ज्ञमीट्ट॑ ऋ॒तं स पा॑त्यरु॒षस्य॒ वृष्णः॑। तस्य॒ क्षयः॑ पृ॒थुरा सा॒धुरे॑तु प्र॒सर्स्रा॑णस्य॒ नहु॑षस्य॒ शेषः॑ ॥६॥

    स्वर सहित पद पाठ

    यः । ते॒ । अ॒ग्ने॒ । नम॑सा । य॒ज्ञम् । ईट्टे॑ । ऋ॒तम् । सः । पा॒ति॒ । अ॒रु॒षस्य॑ । वृष्णः॑ । तस्य॑ । क्षयः॑ । पृ॒थुः । आ । सा॒धुः । ए॒तु॒ । प्र॒ऽसर्स्रा॑णस्य । नहु॑षस्य । शेषः॑ ॥


    स्वर रहित मन्त्र

    यस्ते अग्ने नमसा यज्ञमीट्ट ऋतं स पात्यरुषस्य वृष्णः। तस्य क्षयः पृथुरा साधुरेतु प्रसर्स्राणस्य नहुषस्य शेषः ॥६॥

    स्वर रहित पद पाठ

    यः। ते। अग्ने। नमसा। यज्ञम्। ईट्टे। ऋतम्। सः। पाति। अरुषस्य। वृष्णः। तस्य। क्षयः। पृथुः। आ। साधुः। एतु। प्रऽसस्रर्णास्य। नहुषस्य। शेषः ॥६॥

    ऋग्वेद - मण्डल » 5; सूक्त » 12; मन्त्र » 6
    अष्टक » 4; अध्याय » 1; वर्ग » 4; मन्त्र » 6

    अन्वयः - हे अग्नेऽरुषस्य वृष्णस्तस्य ते यः पृथुः प्रसर्स्राणस्य नहुषस्य शेष इव साधुः क्षयो नमसा यज्ञमीट्टे स ऋतं पाति सोऽस्मानैतु ॥६॥

    पदार्थः -
    (यः) (ते) तव (अग्ने) राजन् (नमसा) अन्नादिना (यज्ञम्) (ईट्टे) ऐश्वर्य्ययुक्तं करोति (ऋतम्) सत्यं न्यायम् (सः) (पाति) रक्षति (अरुषस्य) अहिंसकस्य (वृष्णः) सुखवर्षकस्य (तस्य) (क्षयः) निवासः (पृथुः) विस्तीर्णः (आ) (साधुः) श्रेष्ठः (एतु) प्राप्नोतु (प्रसर्स्राणस्य) भृशं धर्मं प्रापमाणस्य (नहुषस्य) मनुष्यस्य। नहुष इति मनुष्यनामसु पठितम्। (निघं०२.३) (शेषः) यः शिष्यते सः ॥६॥

    भावार्थः - हे मनुष्या ! यो विद्वत्सेवां धर्म्मरक्षणं करोति तद्रक्षणं यूयं कृत्वा शिष्टं सुखं प्राप्नुतेति ॥६॥ अत्राग्निविद्वद्गुणवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥ इति द्वादशं सूक्तं चतुर्थो वर्गश्च समाप्तः ॥

    इस भाष्य को एडिट करें
    Top