ऋग्वेद - मण्डल 5/ सूक्त 13/ मन्त्र 1
अर्च॑न्तस्त्वा हवाम॒हेऽर्च॑न्तः॒ समि॑धीमहि। अग्ने॒ अर्च॑न्त ऊ॒तये॑ ॥१॥
स्वर सहित पद पाठअर्च॑न्तः । त्वा॒ । ह॒वा॒म॒हे॒ । अर्च॑न्तः । सम् । इ॒धी॒म॒हि॒ । अग्ने॑ । अर्च॑न्तः । ऊ॒तये ॥
स्वर रहित मन्त्र
अर्चन्तस्त्वा हवामहेऽर्चन्तः समिधीमहि। अग्ने अर्चन्त ऊतये ॥१॥
स्वर रहित पद पाठअर्चन्तः। त्वा। हवामहे। अर्चन्तः। सम्। इधीमहि। अग्ने। अर्चन्तः। ऊतये ॥१॥
ऋग्वेद - मण्डल » 5; सूक्त » 13; मन्त्र » 1
अष्टक » 4; अध्याय » 1; वर्ग » 5; मन्त्र » 1
अष्टक » 4; अध्याय » 1; वर्ग » 5; मन्त्र » 1
विषयः - अथाग्निपदवाच्यविद्वद्गुणानाह ॥
अन्वयः - हे अग्ने ! वयमूतये त्वार्चन्तो हवामहे त्वामर्चन्तः समिधीमहि त्वामर्चन्तो विपश्चितो भवेम ॥१॥
पदार्थः -
(अर्चन्तः) सत्कुर्वन्तः (त्वा) त्वाम् (हवामहे) स्वीकुर्महे (अर्चन्तः) (सम्, इधीमहि) प्रकाशयेम (अग्ने) विद्वन् (अर्चन्तः) सत्कुर्वन्तः (ऊतये) रक्षणाद्याय ॥१॥
भावार्थः - हे विद्वांसो ! वयं भवतां सत्कारेण सुशिक्षां विद्यां लब्ध्वाऽऽनन्दिताः स्याम ॥१॥
इस भाष्य को एडिट करें