साइडबार
ऋग्वेद - मण्डल 5/ सूक्त 23/ मन्त्र 2
ऋषिः - द्युम्नो विश्वचर्षणिः
देवता - अग्निः
छन्दः - निचृदनुष्टुप्
स्वरः - गान्धारः
तम॑ग्ने पृतना॒षहं॑ र॒यिं स॑हस्व॒ आ भ॑र। त्वं हि स॒त्यो अद्भु॑तो दा॒ता वाज॑स्य॒ गोम॑तः ॥२॥
स्वर सहित पद पाठतम् । अ॒ग्ने॒ । पृ॒त॒ना॒ऽसह॑म् । र॒यिम् । स॒ह॒स्वः॒ । आ । भ॒र॒ । त्वम् । हि । स॒त्यः । अद्भु॑तः । दा॒ता । वाज॑स्य । गोऽम॑तः ॥
स्वर रहित मन्त्र
तमग्ने पृतनाषहं रयिं सहस्व आ भर। त्वं हि सत्यो अद्भुतो दाता वाजस्य गोमतः ॥२॥
स्वर रहित पद पाठतम्। अग्ने। पृतनाऽसहम्। रयिम्। सहस्वः। आ। भर। त्वम्। हि। सत्यः। अद्भुतः। दाता। वाजस्य। गोऽमतः ॥२॥
ऋग्वेद - मण्डल » 5; सूक्त » 23; मन्त्र » 2
अष्टक » 4; अध्याय » 1; वर्ग » 15; मन्त्र » 2
अष्टक » 4; अध्याय » 1; वर्ग » 15; मन्त्र » 2
विषयः - पुनस्तमेव विषयमाह ॥
अन्वयः - हे सहस्वोऽग्ने ! यो हि सत्योऽद्भुतो गोमतो वाजस्य दाता भवेत्तं पृतनाषहं रयिं च त्वमा भर ॥२॥
पदार्थः -
(तम्) (अग्ने) राजन् (पृतनाषहम्) यः पृतनां सेनां सहते तम् (रयिम्) धनम् (सहस्वः) बहु सहो बलं विद्यते यस्य तत्सम्बुद्धौ (आ) (भर) (त्वम्) (हि) (सत्यः) सत्सु साधुः (अद्भुतः) आश्चर्य्यगुणकर्मस्वभावः (दाता) (वाजस्य) सुखधनादेः (गोमतः) बह्व्यो गावो धेनुपृथिव्यादयो विद्यन्ते यस्मिँस्तस्य ॥२॥
भावार्थः - यो राजा सत्यवादिनो विदुषो विचित्रविद्यान् दृढानुदाराञ्छूरान् वीरान् बिभृयात् स एव विजयं श्रियं च लभेत ॥२॥
इस भाष्य को एडिट करें