Loading...
ऋग्वेद मण्डल - 5 के सूक्त 23 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 23/ मन्त्र 3
    ऋषिः - द्युम्नो विश्वचर्षणिः देवता - अग्निः छन्दः - विराडनुष्टुप् स्वरः - गान्धारः

    विश्वे॒ हि त्वा॑ स॒जोष॑सो॒ जना॑सो वृ॒क्तब॑र्हिषः। होता॑रं॒ सद्म॑सु प्रि॒यं व्यन्ति॒ वार्या॑ पु॒रु ॥३॥

    स्वर सहित पद पाठ

    विश्वे॑ । हि । त्वा॒ । स॒ऽजोष॑सः । जना॑सः । वृ॒क्तऽब॑र्हिषः । होता॑रम् । सद्म॑ऽसु । प्रि॒यम् । व्यन्ति॑ । वार्या॑ । पु॒रु ॥


    स्वर रहित मन्त्र

    विश्वे हि त्वा सजोषसो जनासो वृक्तबर्हिषः। होतारं सद्मसु प्रियं व्यन्ति वार्या पुरु ॥३॥

    स्वर रहित पद पाठ

    विश्वे। हि। त्वा। सऽजोषसः। जनासः। वृक्तऽबर्हिषः। होतारम्। सद्मऽसु। प्रियम्। व्यन्ति। वार्या। पुरु ॥३॥

    ऋग्वेद - मण्डल » 5; सूक्त » 23; मन्त्र » 3
    अष्टक » 4; अध्याय » 1; वर्ग » 15; मन्त्र » 3

    अन्वयः - हे राजन् ! ये विश्वे सजोषसो जनासो वृक्तबर्हिषो इव हि सद्मसु होतारं प्रियं त्वाश्रयन्ति ते पुरु वार्य्या व्यन्ति ॥३॥

    पदार्थः -
    (विश्वे) सर्वे (हि) (त्वा) त्वाम् राजानम् (सजोषसः) समानप्रीतिसेवनाः (जनासः) प्रसिद्धशुभाचरणाः (वृक्तबर्हिषः) श्रोत्रिया ऋत्विज इव सर्वविद्यासु कुशलाः (होतारम्) दातारम् (सद्मसु) राजगृहेषु (प्रियम्) कमनीयम् (व्यन्ति) प्राप्नुवन्ति (वार्य्या) वर्त्तुमर्हाणि धनादीनि (पुरु) बहूनि ॥३॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः । हे राजन् ! ये राज्योन्नतिप्रिया धर्म्मिष्ठा भृत्यास्त्वां प्राप्नुयुस्तान् सर्वान् सत्कृत्य सततं रक्षेः ॥३॥

    इस भाष्य को एडिट करें
    Top