साइडबार
ऋग्वेद - मण्डल 5/ सूक्त 23/ मन्त्र 4
ऋषिः - द्युम्नो विश्वचर्षणिः
देवता - अग्निः
छन्दः - निचृत्पङ्क्ति
स्वरः - पञ्चमः
स हि ष्मा॑ वि॒श्वच॑र्षणिर॒भिमा॑ति॒ सहो॑ द॒धे। अग्न॑ ए॒षु क्षये॒ष्वा रे॒वन्नः॑ शुक्र दीदिहि द्यु॒मत्पा॑वक दीदिहि ॥४॥
स्वर सहित पद पाठसः । हि । स्म॒ । वि॒श्वऽच॑र्षणिः । अ॒भिऽमा॑ति । सहः॑ । द॒धे । अग्ने॑ । ए॒षु । क्षये॑षु । आ । रे॒वत् । नः॒ । शु॒क्र॒ । दी॒दि॒हि॒ । द्यु॒ऽमत् । पा॒व॒क॒ । दी॒दि॒हि॒ ॥
स्वर रहित मन्त्र
स हि ष्मा विश्वचर्षणिरभिमाति सहो दधे। अग्न एषु क्षयेष्वा रेवन्नः शुक्र दीदिहि द्युमत्पावक दीदिहि ॥४॥
स्वर रहित पद पाठसः। हि स्म। विश्वऽचर्षणिः। अभिऽमाति। सहः। दधे। अग्ने। एषु। क्षयेषु। आ। रेवत्। नः। शुक्र। दीदिहि। द्युऽमत्। पावक। दीदिहि ॥४॥
ऋग्वेद - मण्डल » 5; सूक्त » 23; मन्त्र » 4
अष्टक » 4; अध्याय » 1; वर्ग » 15; मन्त्र » 4
अष्टक » 4; अध्याय » 1; वर्ग » 15; मन्त्र » 4
विषयः - पुनस्तमेव विषयमाह ॥
अन्वयः - हे शुक्राग्ने ! यो विश्वचर्षणिरेषु क्षयेष्वभिमाति सहो दधे स हि ष्मा विजेता भवति तेन त्वं नो रेवद्दीदिहि। हे पावक ! पवित्राचरणेनाऽस्मभ्यं द्युमदा दीदिहि ॥४॥
पदार्थः -
(सः) (हि) (स्मा) एव। अत्र निपातस्य चेति दीर्घः। (विश्वचर्षणिः) अखिलविद्याप्रकाशः (अभिमाति) अभिमन्यते येन (सहः) बलम् (दधे) दधाति (अग्ने) पावकवद्वर्त्तमान (एषु) (क्षयेषु) निवासेषु (आ) (रेवत्) प्रशस्तधनयुक्तम् (नः) अस्मभ्यम् (शुक्र) शक्तिमन् (दीदिहि) देहि (द्युमत्) प्रकाशमत् (पावक) पवित्र (दीदिहि) प्रकाशय ॥४॥
भावार्थः - ये मनुष्याः पूर्णं शरीरात्मबलं दधति ते सर्वेभ्यः सुखं दातुं शक्नुवन्तीति ॥४॥ अत्राग्निगुणवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥ इति त्रयोविंशतितमं सूक्तं पञ्चदशो वर्गश्च समाप्तः ॥
इस भाष्य को एडिट करें