ऋग्वेद - मण्डल 5/ सूक्त 3/ मन्त्र 10
भूरि॒ नाम॒ वन्द॑मानो दधाति पि॒ता व॑सो॒ यदि॒ तज्जो॒षया॑से। कु॒विद्दे॒वस्य॒ सह॑सा चका॒नः सु॒म्नम॒ग्निर्व॑नते वावृधा॒नः ॥१०॥
स्वर सहित पद पाठभूरि॑ । नाम॑ । वन्द॑मानः । द॒धा॒ति॒ । पि॒ता । व॒सो॒ इति॑ । यदि॑ । तत् । जो॒षया॑से । कु॒वित् । दे॒वस्य॑ । सह॑सा । च॒का॒नः । सु॒म्नम् । अ॒ग्निः । व॒न॒ते॒ । व॒वृ॒धा॒नः ॥
स्वर रहित मन्त्र
भूरि नाम वन्दमानो दधाति पिता वसो यदि तज्जोषयासे। कुविद्देवस्य सहसा चकानः सुम्नमग्निर्वनते वावृधानः ॥१०॥
स्वर रहित पद पाठभूरि। नाम। वन्दमानः। दधाति। पिता। वसो इति। यदि। तत्। जोषयासे। कुवित्। देवस्य। सहसा। चकानः। सुम्नम्। अग्निः। वनते। ववृधानः ॥१०॥
ऋग्वेद - मण्डल » 5; सूक्त » 3; मन्त्र » 10
अष्टक » 3; अध्याय » 8; वर्ग » 17; मन्त्र » 4
अष्टक » 3; अध्याय » 8; वर्ग » 17; मन्त्र » 4
विषयः - पुनस्तमेव विषयमाह ॥
अन्वयः - हे वसो ! यस्ते वन्दमानो देवस्य सहसा सुम्नं चकानोऽग्निरिव वावृधानः पिता यदि भूरि कुविद्यन्नाम दधाति वनते तत्तर्हि त्वं जोषयासे ॥१०॥
पदार्थः -
(भूरि) बहु (नाम) संज्ञाम् (वन्दमानः) स्तुवन् (दधाति) (पिता) जनकः (वसो) वासयितः (यदि) (तत्) (जोषयासे) सेवयेः (कुवित्) महत् (देवस्य) विदुषः (सहसा) बलेन (चकानः) कामयमानः (सुम्नम्) सुखम् (अग्निः) पावक इव (वनते) सम्भजति (वावृधानः) अत्र तुजादीनामित्यभ्यासदैर्घ्यम् ॥१०॥
भावार्थः - हे सन्ताना ! ये युष्माकं पितरो द्वितीयं विद्याजन्माख्यं द्विजेति नाम विदधति तेषां सेवनं सततं यूयं कुरुत ॥१०॥
इस भाष्य को एडिट करें