ऋग्वेद - मण्डल 5/ सूक्त 3/ मन्त्र 11
ऋषिः - वसुश्रुत आत्रेयः
देवता - अग्निः
छन्दः - भुरिक्पङ्क्ति
स्वरः - पञ्चमः
त्वम॒ङ्ग ज॑रि॒तारं॑ यविष्ठ॒ विश्वा॑न्यग्ने दुरि॒ताति॑ पर्षि। स्ते॒ना अ॑दृश्रन्रि॒पवो॒ जना॒सोऽज्ञा॑तकेता वृजि॒ना अ॑भूवन् ॥११॥
स्वर सहित पद पाठत्वम् । अ॒ङ्ग । ज॒रि॒तार॑म् । य॒वि॒ष्ठ॒ । विश्वा॑नि । अ॒ग्ने॒ । दुः॒ऽइ॒ता । अति॑ । प॒र्षि । स्ते॒नाः । अ॒दृ॒श्र॒न् । रि॒पवः॑ । जना॑सः । अज्ञा॑तऽकेताः । वृ॒जि॒नाः । अ॒भू॒व॒न् ॥
स्वर रहित मन्त्र
त्वमङ्ग जरितारं यविष्ठ विश्वान्यग्ने दुरिताति पर्षि। स्तेना अदृश्रन्रिपवो जनासोऽज्ञातकेता वृजिना अभूवन् ॥११॥
स्वर रहित पद पाठत्वम्। अङ्ग। जरितारम्। यविष्ठ। विश्वानि। अग्ने। दुःऽइता। अति। पर्षि। स्तेनाः। अदृश्रन्। रिपवः। जनासः। अज्ञातऽकेताः। वृजिनाः। अभूवन् ॥११॥
ऋग्वेद - मण्डल » 5; सूक्त » 3; मन्त्र » 11
अष्टक » 3; अध्याय » 8; वर्ग » 17; मन्त्र » 5
अष्टक » 3; अध्याय » 8; वर्ग » 17; मन्त्र » 5
विषयः - अथ चौर्यादिदोषनिवारणसन्तानशिक्षाकरणप्रजाधर्मविषयमाह ॥
अन्वयः - हे यविष्ठाङ्गाग्ने ! यतस्त्वं जरितारमति पर्षि विश्वानि दुरिता त्यजसि येऽज्ञातकेता वृजिनाः स्तेना रिपवोऽभूवन् याञ्जनासोऽदृश्रँस्तांस्त्वं परित्यज ॥११॥
पदार्थः -
(त्वम्) (अङ्ग) मित्र (जरितारम्) विद्यागुणस्तावकं पितरम् (यविष्ठ) अतिशयेन युवन् (विश्वानि) अखिलानि (अग्ने) (दुरिता) दुःखप्रापकाणि कर्माणि फलानि वा (अति) (पर्षि) अत्यन्तं पालयसि (स्तेनाः) चोराः (अदृश्रन्) पश्यन्ति (रिपवः) शत्रवः (जनासः) विद्वांसः (अज्ञातकेताः) अज्ञातः केतः प्रज्ञा यैस्ते मूढाः (वृजिनाः) पापाचारा वर्जनीयाः (अभूवन्) भवन्ति ॥११॥
भावार्थः - हे सुसन्ताना ! यूयं दुष्टाचारं त्यक्त्वा पितॄन् सत्कृत्य स्तेनादीन्निवार्य पुण्यकीर्त्तयो भवत ॥११॥
इस भाष्य को एडिट करें