Loading...
ऋग्वेद मण्डल - 5 के सूक्त 3 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 3/ मन्त्र 12
    ऋषिः - वसुश्रुत आत्रेयः देवता - अग्निः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    इ॒मे यामा॑सस्त्व॒द्रिग॑भूव॒न्वस॑वे वा॒ तदिदागो॑ अवाचि। नाहा॒यम॒ग्निर॒भिश॑स्तये नो॒ न रीष॑ते वावृधा॒नः परा॑ दात् ॥१२॥

    स्वर सहित पद पाठ

    इ॒मे । यामा॑सः । त्व॒द्रिक् । अ॒भू॒व॒न् । वस॑वे । वा॒ । तत् । इत् । आगः॑ । अ॒वा॒चि॒ । न । अह॑ । अ॒यम् । अ॒ग्निः । अ॒भिऽश॑स्तये । नः॒ । न । रिष॑ते । व॒वृ॒धा॒नः । परा॑ । दा॒त् ॥


    स्वर रहित मन्त्र

    इमे यामासस्त्वद्रिगभूवन्वसवे वा तदिदागो अवाचि। नाहायमग्निरभिशस्तये नो न रीषते वावृधानः परा दात् ॥१२॥

    स्वर रहित पद पाठ

    इमे। यामासः। त्वद्रिक्। अभूवन्। वसवे। वा। तत्। इत्। आगः। अवाचि। न। अह। अयम्। अग्निः। अभिऽशस्तये। नः। न। रिषते। ववृधानः। परा। दात् ॥१२॥

    ऋग्वेद - मण्डल » 5; सूक्त » 3; मन्त्र » 12
    अष्टक » 3; अध्याय » 8; वर्ग » 17; मन्त्र » 6

    अन्वयः - हे सत्सन्तान ! योऽयमग्निरिव नोऽभिशस्तये नाऽह परा दाद् वावृधानः सन्न रीषते त्वद्रिक् सन् वसवेऽवाचि वा तदाग इदवाचि तमिमे यामासोऽऽध्यापनोपदेशाभ्यां शोधयन्तु त आनन्दिता अभूवन् ॥१२॥

    पदार्थः -
    (इमे) (यामासः) यमनियमान्विताः (त्वद्रिक्) त्वां प्रति यतमानः (अभूवन्) भवन्ति (वसवे) धनाय (वा) (तत्) (इत्) एव (आगः) अपराधः (अवाचि) (न) (अह) (अयम्) (अग्निः) पावक इव (अभिशस्तये) अभितो हिंसनाय (नः) अस्मान् (न) (रीषते) हिनस्ति (वावृधानः) वर्धमानः (परा, दात्) दूरं गमयेत् ॥१२॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः । हे मनुष्या ! ये विद्वांसः कश्चिदपि विनाऽपराधेन नाऽपराध्नुवन्ति तान् स्वसमीपाद्दूरे मा निःसारयेतेति ॥१२॥ अत्र राजप्रजास्तेनापराधनिवारणाद्युक्तत्वादस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥ इति तृतीयं सूक्तं सप्तदशो वर्गश्च समाप्तः ॥

    इस भाष्य को एडिट करें
    Top