ऋग्वेद - मण्डल 5/ सूक्त 32/ मन्त्र 4
त्यं चि॑देषां स्व॒धया॒ मद॑न्तं मि॒हो नपा॑तं सु॒वृधं॑ तमो॒गाम्। वृष॑प्रभर्मा दान॒वस्य॒ भामं॒ वज्रे॑ण व॒ज्री नि ज॑घान॒ शुष्ण॑म् ॥४॥
स्वर सहित पद पाठत्यम् । चि॒त् । ए॒षा॒म् । स्व॒धया॑ । मद॑न्तम् । मि॒हः । नपा॑तम् । सु॒ऽवृध॑म् । त॒मः॒ऽगाम् । वृष॑ऽप्रभर्मा । दा॒न॒वस्य॑ । भाम॑म् । वज्रे॑ण । व॒ज्री । नि । ज॒घा॒न॒ । शुष्ण॑म् ॥
स्वर रहित मन्त्र
त्यं चिदेषां स्वधया मदन्तं मिहो नपातं सुवृधं तमोगाम्। वृषप्रभर्मा दानवस्य भामं वज्रेण वज्री नि जघान शुष्णम् ॥४॥
स्वर रहित पद पाठत्यम्। चित्। एषाम्। स्वधया। मदन्तम्। मिहः। नपातम्। सुऽवृधम्। तमःऽगाम्। वृषऽप्रभर्मा। दानवस्य। भामम्। वज्रेण। वज्री। नि। जघान। शुष्णम् ॥४॥
ऋग्वेद - मण्डल » 5; सूक्त » 32; मन्त्र » 4
अष्टक » 4; अध्याय » 1; वर्ग » 32; मन्त्र » 4
अष्टक » 4; अध्याय » 1; वर्ग » 32; मन्त्र » 4
विषयः - पुना राजविषयमाह ॥
अन्वयः - हे सेनेश वीर ! भवानेषां स्वधया मदन्तं त्यं चित् यथा वृषप्रभर्मा सूर्यो मिहो नपातं सुवृधं तमोगां जघान तथा वज्री सन् वज्रेण दानवस्य शुष्णं भामं नि जघान ॥४॥
पदार्थः -
(त्यम्) तम् (चित्) इव (एषाम्) वीराणां मध्ये (स्वधया) अन्नादिना (मदन्तम्) हर्षन्तम् (मिहः) वृष्टेः (नपातम्) अपतनशीलम् (सुवृधम्) सुष्ठुवर्धमानम् (तमोगाम्) प्राप्ताऽन्धकारम् (वृषप्रभर्मा) यो वर्षणशीलं मेघं प्रबिभर्ति सः (दानवस्य) दुष्टजनस्य (भामम्) क्रोधम् (वज्रेण) तीव्रेण शस्त्रेण (वज्री) प्रशस्तशस्त्रास्त्रयुक्तः (नि) (जघान) निहन्यात् (शुष्णम्) शोषकं बलवन्तम् ॥४॥
भावार्थः - अत्र [उपमा]वाचकलुप्तोपमालङ्कारौ। हे राजन् ! यथा सूर्य्योऽतिविस्तीर्णं मेघं विछिद्य भूमौ निपात्य जगद्रक्षति तथैवाऽतिप्रबलानापि शत्रून् विदार्याऽधो निपात्य न्यायेन प्रजाः पालय ॥४॥
इस भाष्य को एडिट करें