ऋग्वेद - मण्डल 5/ सूक्त 32/ मन्त्र 3
त्यस्य॑ चिन्मह॒तो निर्मृ॒गस्य॒ वध॑र्जघान॒ तवि॑षीभि॒रिन्द्रः॑। य एक॒ इद॑प्र॒तिर्मन्य॑मान॒ आद॑स्माद॒न्यो अ॑जनिष्ट॒ तव्या॑न् ॥३॥
स्वर सहित पद पाठत्यस्य॑ । चि॒त् । म॒ह॒तः । निः । मृ॒गस्य॑ । वधः॑ । ज॒घा॒न॒ । तवि॑षीभिः । इन्द्रः॑ । यः । एकः॑ । इत् । अ॒प्र॒तिः । मन्य॑मानः । आत् । अ॒स्मा॒त् । अ॒न्यः । अ॒ज॒नि॒ष्ट॒ । तव्या॑न् ॥
स्वर रहित मन्त्र
त्यस्य चिन्महतो निर्मृगस्य वधर्जघान तविषीभिरिन्द्रः। य एक इदप्रतिर्मन्यमान आदस्मादन्यो अजनिष्ट तव्यान् ॥३॥
स्वर रहित पद पाठत्यस्य। चित्। महतः। निः। मृगस्य। वधः। जघान। तविषीभिः। इन्द्रः। यः। एकः। इत्। अप्रतिः। मन्यमानः। आत्। अस्मात्। अन्यः। अजनिष्ट। तव्यान् ॥३॥
ऋग्वेद - मण्डल » 5; सूक्त » 32; मन्त्र » 3
अष्टक » 4; अध्याय » 1; वर्ग » 32; मन्त्र » 3
अष्टक » 4; अध्याय » 1; वर्ग » 32; मन्त्र » 3
विषयः - अथ धनुर्वेदविद्राजगुणानाह ॥
अन्वयः - हे विद्वन् ! य एकोऽप्रतिर्मन्यमानस्त्वं तविषीभिर्यथेन्द्रस्त्यस्य महतो मृगस्य मेघस्य वधर्जघान तथाऽस्मांश्चिज्जनयादस्माद्यथाऽन्यो निरजनिष्ट तथेत्त्वमस्मान् तव्यान्निज्जनय ॥३॥
पदार्थः -
(त्यस्य) तस्य (चित्) (महतः) (निः) (मृगस्य) सद्योगामिनः (वधः) घ्नन्ति यस्मिन् सः (जघान) हन्ति (तविषीभिः) सेनादिबलैः (इन्द्रः) सेनेशः (यः) (एकः) (इत्) (अप्रतिः) अविद्यमाना प्रतिः प्रतीतिर्यस्य सः (मन्यमानः) (आत्) (अस्मात्) (अन्यः) भिन्नः (अजनिष्ट) जनयति (तव्यान्) ये तविषि बले भवास्तान्। अत्र छान्दसो वर्णलोपो वेति सलोपः ॥३॥
भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। यथा सूर्यो मेघं विजित्य स्वप्रभावं जनयित्वा सर्वान् प्राणिनः पालयति तथैव धनुर्वेदविदेकोऽप्यनेकान् विजित्य प्रजाः पालयेत् ॥३॥
इस भाष्य को एडिट करें