ऋग्वेद - मण्डल 5/ सूक्त 32/ मन्त्र 2
त्वमुत्साँ॑ ऋ॒तुभि॑र्बद्बधा॒नाँ अरं॑ह॒ ऊधः॒ पर्व॑तस्य वज्रिन्। अहिं॑ चिदुग्र॒ प्रयु॑तं॒ शया॑नं जघ॒न्वाँ इ॑न्द्र॒ तवि॑षीमधत्थाः ॥२॥
स्वर सहित पद पाठत्वम् । उत्सा॑न् । ऋ॒तुऽभिः॑ । ब॒द्ब॒धा॒नान् । अरं॑हः । ऊधः॑ । पर्व॑तस्य । व॒ज्रि॒न् । अहि॑म् । चि॒त् । उ॒ग्र॒ । प्रऽयु॑तम् । शया॑नम् । ज॒घ॒न्वान् । इ॒न्द्र॒ । तवि॑षीम् । अ॒ध॒त्थाः॒ ॥
स्वर रहित मन्त्र
त्वमुत्साँ ऋतुभिर्बद्बधानाँ अरंह ऊधः पर्वतस्य वज्रिन्। अहिं चिदुग्र प्रयुतं शयानं जघन्वाँ इन्द्र तविषीमधत्थाः ॥२॥
स्वर रहित पद पाठत्वम्। उत्सान्। ऋतुऽभिः। बद्बधानान्। अरंह। ऊधः। पर्वतस्य। वज्रिन्। अहिम्। चित्। उग्र। प्रऽयुतम्। शयानम्। जघन्वान्। इन्द्र। तविषीम्। अधत्थाः ॥२॥
ऋग्वेद - मण्डल » 5; सूक्त » 32; मन्त्र » 2
अष्टक » 4; अध्याय » 1; वर्ग » 32; मन्त्र » 2
अष्टक » 4; अध्याय » 1; वर्ग » 32; मन्त्र » 2
विषयः - पुनस्तमेव विषयमाह ॥
अन्वयः - हे वज्रिन्नुग्रेन्द्र राजँस्त्वं यथा कृषीबला ऋतुभिर्बद्धानानुत्सानरंहो यथा सूर्य्यः पर्वतस्योधश्चित् प्रयुतं शयानमहिं जघन्वाँस्तथा त्वं तविषीमधत्थाः ॥२॥
पदार्थः -
(त्वम्) (उत्सान्) कूपानिव (ऋतुभिः) वसन्तादिभिः (बद्बधानान्) सम्बद्धान् (अरंहः) गमयति (ऊधः) जलाधारं घनसमूहम् (पर्वतस्य) मेघस्य (वज्रिन्) प्रशस्तवज्रवन् (अहिम्) मेघम् (चित्) (उग्र) तेजस्विन् (प्रयुतम्) बहुविधम् (शयानम्) शयानमिवाचरन्तम् (जघन्वान्) हन्ति (इन्द्र) सूर्यवद्वर्त्तमान (तविषीम्) बलयुक्तां सेनाम् (अधत्थाः) दध्याः ॥२॥
भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। यथा कृषीबलाः कूपेभ्यो जलं क्षेत्राणि नीत्वा शस्यानुत्पाद्य सर्वर्त्तुषु सुखैश्वर्यमुन्नयन्ति तथैव त्वं प्रजा उन्नय ॥२॥
इस भाष्य को एडिट करें