ऋग्वेद - मण्डल 5/ सूक्त 36/ मन्त्र 6
ऋषिः - प्रभूवसुराङ्गिरसः
देवता - इन्द्र:
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
यो रोहि॑तौ वा॒जिनौ॑ वा॒जिनी॑वान्त्रि॒भिः श॒तैः सच॑मना॒वदि॑ष्ट। यूने॒ सम॑स्मै क्षि॒तयो॑ नमन्तां श्रु॒तर॑थाय मरुतो दुवो॒या ॥६॥
स्वर सहित पद पाठयः । रोहि॑तौ । वा॒जिनौ॑ । वा॒जिनी॑ऽवान् । त्रि॒ऽभिः । श॒तैः । सच॑मानौ । अदि॑ष्ट । यूने॑ । सम् । अ॒स्मै॒ । क्षि॒तयः॑ । न॒म॒न्ता॒म् । श्रु॒तऽर॑थाय । म॒रु॒तः॒ । दु॒वः॒ऽया ॥
स्वर रहित मन्त्र
यो रोहितौ वाजिनौ वाजिनीवान्त्रिभिः शतैः सचमनावदिष्ट। यूने समस्मै क्षितयो नमन्तां श्रुतरथाय मरुतो दुवोया ॥६॥
स्वर रहित पद पाठयः। रोहितौ। वाजिनौ। वाजिनीऽवान्। त्रिऽभिः। शतैः। सचमानौ। अदिष्ट। यूने। सम्। अस्मै। क्षितयः। नमन्ताम्। श्रुतऽरथाय। मरुतः। दुवःऽया ॥६॥
ऋग्वेद - मण्डल » 5; सूक्त » 36; मन्त्र » 6
अष्टक » 4; अध्याय » 2; वर्ग » 7; मन्त्र » 6
अष्टक » 4; अध्याय » 2; वर्ग » 7; मन्त्र » 6
विषयः - अथ शिल्पिकार्य्यविषयमाह ॥
अन्वयः - हे मरुतो ! यो वाजिनीवाँस्त्रिभिः शतैरस्मै यूने सचमानौ दुवोया वाजिनौ रोहतावदिष्ट तस्मै श्रुतरथाय क्षितयः सन्नमन्ताम् ॥६॥
पदार्थः -
(यः) (रोहितौ) विद्युत्प्रसिद्धवह्नी (वाजिनौ) अतिवेगवन्तौ (वाजिनीवान्) वेगक्रियाज्ञानयुक्तः (त्रिभिः) (शतैः) (सचमानौ) सम्बद्धौ (अदिष्ट) दिशेत् (यूने) पूर्णयुवावस्थाय (सम्) (अस्मै) (क्षितयः) मनुष्याः (नमन्ताम्) (श्रुतरथाय) श्रुता रथा यस्य (मरुतः) मनुष्याः (दुवोया) यौ दुवः परिचरणं यातस्तौ ॥६॥
भावार्थः - ये विमानादियानकार्य्येष्वग्न्यादिपदार्थान् संप्रयोजयन्ति ते यावता त्रिभिः शतैरश्वैर्यानं सद्यो नयन्ति तावद्बलं तस्यां कलायां भवति। य एव शिल्पविद्याकृत्येषु प्रसिद्धा जायन्ते तेषां सत्कारः सर्वे कुर्वन्तीति ॥६॥ अत्रेन्द्रविद्वच्छिल्पिकृत्यवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥ इति षट्त्रिंशत्तमं सूक्तं सप्तमो वर्गश्च समाप्तः ॥
इस भाष्य को एडिट करें