Loading...
ऋग्वेद मण्डल - 5 के सूक्त 39 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 39/ मन्त्र 3
    ऋषिः - अत्रिः देवता - इन्द्र: छन्दः - विराडनुष्टुप् स्वरः - गान्धारः

    यत्ते॑ दि॒त्सु प्र॒राध्यं॒ मनो॒ अस्ति॑ श्रु॒तं बृ॒हत्। तेन॑ दृ॒ळ्हा चि॑दद्रिव॒ आ वाजं॑ दर्षि सा॒तये॑ ॥३॥

    स्वर सहित पद पाठ

    यत् । ते॒ । दि॒त्सु । प्र॒ऽराध्य॑म् । मनः॑ । अस्ति॑ । श्रु॒तम् । बृ॒हत् । तेन॑ । दृ॒ळ्हा । चि॒त् । अ॒द्रि॒ऽवः॒ । आ । वाज॑म् । द॒र्षि॒ । सा॒तये॑ ॥


    स्वर रहित मन्त्र

    यत्ते दित्सु प्रराध्यं मनो अस्ति श्रुतं बृहत्। तेन दृळ्हा चिदद्रिव आ वाजं दर्षि सातये ॥३॥

    स्वर रहित पद पाठ

    यत्। ते। दित्सु। प्रऽराध्यम्। मनः। अस्ति। श्रुतम्। बृहत्। तेन। दृळ्हा। चित्। अद्रिऽवः। आ। वाजम्। दर्षि। सातये ॥३॥

    ऋग्वेद - मण्डल » 5; सूक्त » 39; मन्त्र » 3
    अष्टक » 4; अध्याय » 2; वर्ग » 10; मन्त्र » 3

    अन्वयः - हे अद्रिवो विद्वंस्ते यद्दित्सु प्रराध्यं श्रुतं बृहन्मनोऽस्ति तेन चित्त्वं दृळ्हा रक्षसि सातये वाजमा दर्षि ॥३॥

    पदार्थः -
    (यत्) (ते) तव (दित्सु) दातुमिच्छु (प्रराध्यम्) प्रकर्षेण साद्धुं योग्यम् (मनः) चित्तम् (अस्ति) (श्रुतम्) (बृहत्) महत् (तेन) (दृळ्हा) दृढानि (चित्) (अद्रिवः) सुशोभितशैलयुक्त (आ) (वाजम्) सङ्ग्रामम् (दर्षि) विदृणासि (सातये) धर्म्माधर्म्मविभागाय ॥३॥

    भावार्थः - यतो मनुष्यो ब्रह्मचर्य्यविद्यायोगाभ्याससत्यभाषणाद्याचरणेन सर्वविद्यायुक्तं मनः सम्पाद्य धर्मेण सार्वजनिकहिताय दुष्टान् दण्डयति तस्मात् सोऽत्युत्तमोऽस्ति ॥३॥

    इस भाष्य को एडिट करें
    Top