ऋग्वेद - मण्डल 5/ सूक्त 39/ मन्त्र 4
मंहि॑ष्ठं वो म॒घोनां॒ राजा॑नं चर्षणी॒नाम्। इन्द्र॒मुप॒ प्रश॑स्तये पू॒र्वीभि॑र्जुजुषे॒ गिरः॑ ॥४॥
स्वर सहित पद पाठमंहि॑ष्ठम् । वः॒ । म॒घोना॑म् । राजा॑नम् । च॒र्ष॒णी॒नाम् । इन्द्र॑म् । उप॑ । प्रऽश॑स्तये । पू॒र्वीभिः॑ । जु॒जु॒षे॒ । गिरः॑ ॥
स्वर रहित मन्त्र
मंहिष्ठं वो मघोनां राजानं चर्षणीनाम्। इन्द्रमुप प्रशस्तये पूर्वीभिर्जुजुषे गिरः ॥४॥
स्वर रहित पद पाठमंहिष्ठम्। वः। मघोनाम्। राजानम्। चर्षणीनाम्। इन्द्रम्। उप। प्रऽशस्तये। पूर्वीभिः। जुजुषे। गिरः ॥४॥
ऋग्वेद - मण्डल » 5; सूक्त » 39; मन्त्र » 4
अष्टक » 4; अध्याय » 2; वर्ग » 10; मन्त्र » 4
अष्टक » 4; अध्याय » 2; वर्ग » 10; मन्त्र » 4
विषयः - अथ राजप्रजाविषयमाह ॥
अन्वयः - हे मनुष्या ! यं वो मघोनां चर्षणीनां मंहिष्ठमिन्द्रं राजानं प्रशस्तये पूर्वीभिः सनातनीभिः सह गिर उप जुजुषे ते स च सर्वत्र सुखिनो जायन्ते ॥४॥
पदार्थः -
(मंहिष्ठम्) अतिशयेन महान्तम् (वः) युष्माकम् (मघोनाम्) बह्वश्वैर्य्ययुक्तानाम् (राजानम्) (चर्षणीनाम्) मनुष्याणाम् (इन्द्रम्) परमैश्वर्य्यपदम् (उप) (प्रशस्तये) प्रशंसायै (पूर्वीभिः) प्राचीनाभिः प्रजाभिः सह (जुजुषे) सेवसे प्रीणासि वा (गिरः) वाणीः ॥४॥
भावार्थः - हे मनुष्या ! ये राजानो याः प्रजाश्च परस्परमानुकूल्ये वर्त्तन्ते ते सदैवाऽऽनन्दिता भवन्ति ॥४॥
इस भाष्य को एडिट करें