ऋग्वेद - मण्डल 5/ सूक्त 57/ मन्त्र 8
ह॒ये नरो॒ मरु॑तो मृ॒ळता॑ न॒स्तुवी॑मघासो॒ अमृ॑ता॒ ऋत॑ज्ञाः। सत्य॑श्रुतः॒ कव॑यो॒ युवा॑नो॒ बृह॑द्गिरयो बृ॒हदु॒क्षमा॑णाः ॥८॥
स्वर सहित पद पाठह॒ये । नरः॑ । मरु॑तः । मृ॒ळत॑ । नः॒ । तुवि॑ऽमघासः । अमृ॑ताः । ऋत॑ऽज्ञाः । सत्य॑ऽश्रुतः । कव॑यः । युवा॑नः । बृह॑त्ऽगिरयः । बृ॒हत् । उ॒क्षमा॑णाः ॥
स्वर रहित मन्त्र
हये नरो मरुतो मृळता नस्तुवीमघासो अमृता ऋतज्ञाः। सत्यश्रुतः कवयो युवानो बृहद्गिरयो बृहदुक्षमाणाः ॥८॥
स्वर रहित पद पाठहये। नरः। मरुतः। मृळत। नः। तुविऽमघासः। अमृताः। ऋतऽज्ञाः। सत्यऽश्रुतः। कवयः। युवानः। बृहत्ऽगिरयः। बृहत्। उक्षमाणाः ॥८॥
ऋग्वेद - मण्डल » 5; सूक्त » 57; मन्त्र » 8
अष्टक » 4; अध्याय » 3; वर्ग » 22; मन्त्र » 3
अष्टक » 4; अध्याय » 3; वर्ग » 22; मन्त्र » 3
विषयः - पुनर्मरुद्विषयकविद्वद्गुणानाह ॥
अन्वयः - हये नरो मरुतो ! तुवीमघासोऽमृता ऋतज्ञाः सत्यश्रुतो युवानो बृहद्गिरयो बृहदुक्षमाणाः कवयः सन्तो यूयं नो मृळता ॥८॥
पदार्थः -
(हये) सम्बोधने (नरः) नायकाः (मरुतः) मरणशीलाः (मृळता) सुखयत। अत्र संहितायामिति दीर्घः। (नः) अस्मान् (तुवीमघासः) बहुधनयुक्ताः (अमृताः) स्वस्वरूपेण मृत्युरहिताः (ऋतज्ञाः) ये ऋतं यथार्थं जानन्ति ते (सत्यश्रुतः) ये सत्यं श्रुतवन्तः शृण्वन्ति वा (कवयः) विद्वांसः (युवानः) प्राप्तयुवावस्थाः (बृहद्गिरयः) बहुप्रशंसाः (बृहत्) महत् (उक्षमाणाः) सेवमानाः ॥८॥
भावार्थः - ये मनुष्या आप्तान् विदुषः सेवन्ते ते सत्यां विद्यां प्राप्य सदैव मोदन्ते ॥८॥ अत्र रुद्रमरुद्गुणवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥ इति सप्तपञ्चाशत्तमं सूक्तं द्वाविंशो वर्गश्च समाप्तः ॥
इस भाष्य को एडिट करें