ऋग्वेद - मण्डल 5/ सूक्त 68/ मन्त्र 3
ता नः॑ शक्तं॒ पार्थि॑वस्य म॒हो रा॒यो दि॒व्यस्य॑। महि॑ वां क्ष॒त्रं दे॒वेषु॑ ॥३॥
स्वर सहित पद पाठता । नः॒ । शक्त॑म् । पार्थि॑वस्य । म॒हः । रा॒यः । दि॒व्यस्य॑ । महि॑ । वा॒म् । क्ष॒त्रम् । दे॒वेषु॑ ॥
स्वर रहित मन्त्र
ता नः शक्तं पार्थिवस्य महो रायो दिव्यस्य। महि वां क्षत्रं देवेषु ॥३॥
स्वर रहित पद पाठता। नः। शक्तम्। पार्थिवस्य। महः। रायः। दिव्यस्य। महि। वाम्। क्षत्रम्। देवेषु ॥३॥
ऋग्वेद - मण्डल » 5; सूक्त » 68; मन्त्र » 3
अष्टक » 4; अध्याय » 4; वर्ग » 6; मन्त्र » 3
अष्टक » 4; अध्याय » 4; वर्ग » 6; मन्त्र » 3
विषयः - पुना राज्यं कथमुन्नेयमित्याह ॥
अन्वयः - हे मनुष्या ! [यो] नः पार्थिवस्य महो रायो दिव्यस्य शक्तं ययोर्वां देवेषु महि क्षत्रं वर्त्तते ता युवां वयं सत्कुर्य्याम ॥३॥
पदार्थः -
(ता) तौ (नः) अस्माकम् (शक्तम्) समर्थम् (पार्थिवस्य) पृथिव्यां विदितस्य (महः) महतः (रायः) धनस्य (दिव्यस्य) दिवि शुद्धे व्यवहारे भवस्य (महि) महत् (वाम्) युवयोः (क्षत्रम्) राज्यं धन वा (देवेषु) सत्यविद्यां प्राप्तेषु ॥३॥
भावार्थः - हे राजपुरुषा ! युष्माभिर्यदि स्वं राज्यं विद्वद्भी रक्ष्येत तर्हि तत्पृथिव्यां विदितं समर्थं जायेत ॥३॥
इस भाष्य को एडिट करें