साइडबार
ऋग्वेद - मण्डल 5/ सूक्त 70/ मन्त्र 4
मा कस्या॑द्भुतक्रतू य॒क्षं भु॑जेमा त॒नूभिः॑। मा शेष॑सा॒ मा तन॑सा ॥४॥
स्वर सहित पद पाठमा । कस्य॑ । अ॒द्भु॒त॒क्र॒तू॒ इत्य॑द्भुतऽक्रतू । य॒क्षम् । भु॒जे॒म॒ । त॒नूभिः॑ । मा । शेष॑सा । मा । तन॑सा ॥
स्वर रहित मन्त्र
मा कस्याद्भुतक्रतू यक्षं भुजेमा तनूभिः। मा शेषसा मा तनसा ॥४॥
स्वर रहित पद पाठमा। कस्य। अद्भुतक्रतू इत्यद्भुतऽक्रतू। यक्षम्। भुजेम। तनूभिः। मा। शेषसा। मा। तनसा ॥४॥
ऋग्वेद - मण्डल » 5; सूक्त » 70; मन्त्र » 4
अष्टक » 4; अध्याय » 4; वर्ग » 8; मन्त्र » 4
अष्टक » 4; अध्याय » 4; वर्ग » 8; मन्त्र » 4
विषयः - उत्तमैः कस्माच्चिदपि पुरुषाद्दानं कदाचिन्न ग्रहीतव्यमित्याह ॥
अन्वयः - हे अद्भुतक्रतू ! वयं तनूभिः कस्यचिद्यक्षं मा भुजेम। शेषसा मा भुजेम तनसा मा भुजेम ॥४॥
पदार्थः -
(मा) (कस्य) (अद्भुतक्रतू) अद्भुतां क्रतुः प्रज्ञा कर्म्म वां ययोस्तौ (यक्षम्) दानम् (भुजेमा) पालयेम । अत्र संहितायामिति दीर्घः। (तनूभिः) शरीरैः (मा) (शेषसा) अपत्यैः सह वर्त्तमानाः (मा) (तनसा) पौत्रादिसहिता ॥
भावार्थः - विद्वांस एवमुपदेशं कुर्य्युर्येन कस्माच्चिद्दानं कोऽपि न गृह्णीयात्। तथैव मातापितृभ्यां पुत्रपौत्रादयोऽपि दानरुचिं न कुर्य्युरिति ॥४॥ अत्र मित्रावरुणविद्वद्गुणवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥ इति सप्ततितमं सूक्तमष्टमो वर्गश्च समाप्तः ॥
इस भाष्य को एडिट करें