साइडबार
ऋग्वेद - मण्डल 5/ सूक्त 72/ मन्त्र 3
मि॒त्रश्च॑ नो॒ वरु॑णश्च जु॒षेतां॑ य॒ज्ञमि॒ष्टये॑। नि ब॒र्हिषि॑ सदतं॒ सोम॑पीतये ॥३॥
स्वर सहित पद पाठमि॒त्रः । च॒ । नः॒ । वरु॑णः । च॒ । जु॒षेता॑म् । य॒ज्ञम् । इ॒ष्टये॑ । नि । ब॒र्हिषि॑ । स॒द॒त॒म् । सोम॑ऽपीतये ॥
स्वर रहित मन्त्र
मित्रश्च नो वरुणश्च जुषेतां यज्ञमिष्टये। नि बर्हिषि सदतं सोमपीतये ॥३॥
स्वर रहित पद पाठमित्रः। च। नः। वरुणः। च। जुषेताम्। यज्ञम्। इष्टये। नि। बर्हिषि। सदतम्। सोमऽपीतये ॥३॥
ऋग्वेद - मण्डल » 5; सूक्त » 72; मन्त्र » 3
अष्टक » 4; अध्याय » 4; वर्ग » 10; मन्त्र » 3
अष्टक » 4; अध्याय » 4; वर्ग » 10; मन्त्र » 3
विषयः - मनुष्यैरिह कथं वर्त्तितव्यमित्याह ॥
अन्वयः - हे स्त्रीपुरुषौ ! यथा मित्रश्च वरुणश्चेष्टये सोमपीतये नो यज्ञं जुषेतां बर्हिष्याशाते तथा युवां निषदतम् ॥३॥
पदार्थः -
(मित्रः) सखा (च) (नः) अस्माकम् (वरुणः) वरणीयः (च) (जुषेताम्) (यज्ञम्) (इष्टये) इष्टसुखाय (नि) (बर्हिषि) उत्तमे व्यवहारे (सदतम्) निषीदतम् (सोमपीतये) सोमस्य पानाय ॥३॥
भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः । ये सखीवद्वर्त्तित्वेष्टसुखं सिषाधिषन्ति ते गणनीया जायन्ते ॥३॥ अत्र मित्रवरुणविद्वद्गुणवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥ इति द्विसप्ततितमं सूक्तं पञ्चमोऽनुवाकश्चतुर्थाष्टको दशमो वर्गश्च समाप्तः ॥
इस भाष्य को एडिट करें