ऋग्वेद - मण्डल 5/ सूक्त 78/ मन्त्र 9
ऋषिः - सप्तवध्रिरात्रेयः
देवता - अश्विनौ
छन्दः - निचृदनुष्टुप्
स्वरः - गान्धारः
दश॒ मासा॑ञ्छशया॒नः कु॑मा॒रो अधि॑ मा॒तरि॑। नि॒रैतु॑ जी॒वो अक्ष॑तो जी॒वो जीव॑न्त्या॒ अधि॑ ॥९॥
स्वर सहित पद पाठदश॑ । मासा॑न् । श॒श॒या॒नः । कु॒मा॒रः । अधि॑ । मा॒तरि॑ । निः॒ऽऐतु॑ । जी॒वः । अक्ष॑तः । जी॒वः । जीव॑न्त्या । अधि॑ ॥
स्वर रहित मन्त्र
दश मासाञ्छशयानः कुमारो अधि मातरि। निरैतु जीवो अक्षतो जीवो जीवन्त्या अधि ॥९॥
स्वर रहित पद पाठदश। मासान्। शशयानः। कुमारः। अधि। मातरि। निःऐतु। जीवः। अक्षतः। जीवः। जीवन्त्याः। अधि ॥९॥
ऋग्वेद - मण्डल » 5; सूक्त » 78; मन्त्र » 9
अष्टक » 4; अध्याय » 4; वर्ग » 20; मन्त्र » 5
अष्टक » 4; अध्याय » 4; वर्ग » 20; मन्त्र » 5
विषयः - पुनस्तमेव विषयमाह ॥
अन्वयः - हे मनुष्या ! यो जीवोऽधि मातरि दश मासाञ्छशयानोऽक्षतः कुमारो निरैतु स जीवो जीवन्त्या अधि जीवति ॥९॥
पदार्थः -
(दश) (मासान्) (शशयानः) कृतशयनः (कुमारः) (अधि) उपरि (मातरि) (निरैतु) निर्गच्छतु (जीवः) यः प्राणान् धरति (अक्षतः) क्षतवर्जितः (जीवः) (जीवन्त्याः) (अधि) ॥९॥
भावार्थः - त एव सन्ताना उत्तमा भवन्ति ये दश मासा यावत्तावद् गर्भे स्थित्वा जायन्ते ॥९॥ अत्राश्विस्त्रीपुरुषगुणवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥ इत्यष्टसप्ततितमं सूक्तं विंशो वर्गश्च समाप्तः ॥
इस भाष्य को एडिट करें