Loading...
ऋग्वेद मण्डल - 5 के सूक्त 80 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 80/ मन्त्र 1
    ऋषिः - सत्यश्रवा आत्रेयः देवता - उषाः छन्दः - निचृत्पङ्क्ति स्वरः - पञ्चमः

    द्यु॒तद्या॑मानं बृह॒तीमृ॒तेन॑ ऋ॒ताव॑रीमरु॒णप्सुं॑ विभा॒तीम्। दे॒वीमु॒षसं॒ स्व॑रा॒वह॑न्तीं॒ प्रति॒ विप्रा॑सो म॒तिभि॑र्जरन्ते ॥१॥

    स्वर सहित पद पाठ

    द्यु॒तऽद्या॑मानम् । बृ॒ह॒तीम् । ऋ॒तेन॑ । ऋ॒तऽव॑रीम् । अ॒रु॒णऽप्सु॑म् । वि॒ऽभा॒तीम् । दे॒वीम् । उ॒षस॑म् । स्वः॑ । आ॒ऽवह॑न्तीम् । प्रति॑ । विप्रा॑सः । म॒तिऽभिः॑ । ज॒र॒न्ते॒ ॥


    स्वर रहित मन्त्र

    द्युतद्यामानं बृहतीमृतेन ऋतावरीमरुणप्सुं विभातीम्। देवीमुषसं स्वरावहन्तीं प्रति विप्रासो मतिभिर्जरन्ते ॥१॥

    स्वर रहित पद पाठ

    द्युतत्ऽयामानम्। बृहतीम्। ऋतेन। ऋतऽवरीम्। अरुणऽप्सुम्। विऽभातीम्। देवीम्। उषसम्। स्वः। आऽवहन्तीम्। प्रति। विप्रासः। मतिऽभिः। जरन्ते ॥१॥

    ऋग्वेद - मण्डल » 5; सूक्त » 80; मन्त्र » 1
    अष्टक » 4; अध्याय » 4; वर्ग » 23; मन्त्र » 1

    अन्वयः - हे स्त्रि ! यथा विप्रासो मतिभिर्ऋतेन द्युतद्यामानं बृहतीमृतावरीमरुणप्सुं विभातीं देवीं स्वरावहन्तीमुषसं प्रति जरन्ते तांस्त्वं प्रशंस ॥१॥

    पदार्थः -
    (द्युतद्यामानम्) प्रहरान् द्योतयन्तीम् (बृहतीम्) (ऋतेन) जलेनेव सत्येन (ऋतावरीम्) बहुसत्याचरणयुक्ताम् (अरुणप्सुम्) प्सु इति रूपनामसु पठितम्। (निघं०३.७) (विभातीम्) प्रकाशयन्तीम् (देवीम्) देदीप्यमानाम् (उषसम्) प्रातर्वेलाम् (स्वः) आदित्यमिव विद्याप्रकाशम् (आवहन्तीम्) प्रापयन्तीम् (प्रति) (विप्रासः) (मतिभिः) प्रज्ञाभिः (जरन्ते) स्तुवन्ति ॥१॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः । यथा मेधाविनः पतय उषसादिपदार्थविद्यां विज्ञाय क्षणमपि कालं व्यर्थं न नयन्ति तथैव स्त्रियोऽपि निरर्थकं समयन्न गमयेयुः ॥१॥

    इस भाष्य को एडिट करें
    Top