Loading...
ऋग्वेद मण्डल - 5 के सूक्त 83 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 83/ मन्त्र 9
    ऋषिः - अत्रिः देवता - पृथिवी छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    यत्प॑र्जन्य॒ कनि॑क्रदत्स्त॒नय॒न् हंसि॑ दु॒ष्कृतः॑। प्रती॒दं विश्वं॑ मोदते॒ यत्किं च॑ पृथि॒व्यामधि॑ ॥९॥

    स्वर सहित पद पाठ

    यत् । प॒र्ज॒न्य॒ । कनि॑क्रदत् । स्त॒नय॑न् । हंसि॑ । दुः॒ऽकृतः॑ । प्रति॑ । इ॒दम् । विश्व॑म् । मो॒द॒ते॒ । यत् । किम् । च॒ । पृ॒थि॒व्याम् । अधि॑ ॥


    स्वर रहित मन्त्र

    यत्पर्जन्य कनिक्रदत्स्तनयन् हंसि दुष्कृतः। प्रतीदं विश्वं मोदते यत्किं च पृथिव्यामधि ॥९॥

    स्वर रहित पद पाठ

    यत्। पर्जन्य। कनिक्रदत्। स्तनयन्। हंसि। दुःऽकृतः। प्रति। इदम्। विश्वम्। मोदते। यत्। किम्। च। पृथिव्याम्। अधि ॥९॥

    ऋग्वेद - मण्डल » 5; सूक्त » 83; मन्त्र » 9
    अष्टक » 4; अध्याय » 4; वर्ग » 28; मन्त्र » 4

    अन्वयः - हे मनुष्या ! यद्यः पर्जन्य कनिक्रदत् स्तनयन् दुष्कृतो हंसि यत्किं चेदं पृथिव्यामधि विश्वं वर्त्तते तत्सर्वं येन मेघेन प्रति मोदते स महानुपकार्यस्ति ॥९॥

    पदार्थः -
    (यत्) यः (पर्जन्य) पर्जन्यो मेघः (कनिक्रदत्) भृशं शब्दयन् (स्तनयन्) गर्जनं कुर्वन् (हंसि) अत्र पुरुषव्यत्ययः। (दुष्कृतः) ये दुःखेन कुर्वन्ति तान् (प्रति) (इदम्) वर्त्तमानम् (विश्वम्) सर्वं जगत् (मोदते) (यत्) (किम्) (च) (पृथिव्याम्) (अधि) उपरि ॥९॥

    भावार्थः - मेघेनैव सर्वाणि भूतान्यानन्दन्ति तस्मादिदं मेघनिर्माणाख्यं कर्म परमेश्वरस्य धन्यवादार्हमस्तीति सर्वे विजानन्तु ॥९॥

    इस भाष्य को एडिट करें
    Top