Loading...
ऋग्वेद मण्डल - 6 के सूक्त 15 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 15/ मन्त्र 16
    ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - अग्निः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    अग्ने॒ विश्वे॑भिः स्वनीक दे॒वैरूर्णा॑वन्तं प्रथ॒मः सी॑द॒ योनि॑म्। कु॒ला॒यिनं॑ घृ॒तव॑न्तं सवि॒त्रे य॒ज्ञं न॑य॒ यज॑मानाय सा॒धु ॥१६॥

    स्वर सहित पद पाठ

    अग्ने॑ । विश्वे॑भिः । सु॒ऽअ॒नी॒क॒ । दे॒वैः । ऊर्णा॑ऽवन्तम् । प्र॒थ॒मः । सी॒द॒ । योनि॑म् । कु॒ला॒यिन॑म् । घृ॒तऽव॑न्तम् । स॒वि॒त्रे । य॒ज्ञम् । न॒य॒ । यज॑मानाय । सा॒धु ॥


    स्वर रहित मन्त्र

    अग्ने विश्वेभिः स्वनीक देवैरूर्णावन्तं प्रथमः सीद योनिम्। कुलायिनं घृतवन्तं सवित्रे यज्ञं नय यजमानाय साधु ॥१६॥

    स्वर रहित पद पाठ

    अग्ने। विश्वेभिः। सुऽअनीक। देवैः। ऊर्णाऽवन्तम्। प्रथमः। सीद। योनिम्। कुलायिनम्। घृतऽवन्तम्। सवित्रे। यज्ञम्। नय। यजमानाय। साधु ॥१६॥

    ऋग्वेद - मण्डल » 6; सूक्त » 15; मन्त्र » 16
    अष्टक » 4; अध्याय » 5; वर्ग » 20; मन्त्र » 1

    अन्वयः - हे स्वनीकाग्ने राजन् ! प्रथमस्त्वं विश्वेभिर्देवैस्सहोर्णावन्तं योनिं सीद सवित्रे यजमानाय कुलायिनं घृतवन्तं यज्ञं साधु नय ॥१६॥

    पदार्थः -
    (अग्ने) विद्वन् (विश्वेभिः) सर्वैः (स्वनीक) शोभनान्यनीकानि सैन्यानि यस्य तत्सम्बुद्धौ (देवैः) विद्वद्भिर्वीरैर्वा (ऊर्णावन्तम्) बहूर्णादिवस्त्रयुक्तम् (प्रथमः) प्रख्यातः (सीद) (योनिम्) गृहम् (कुलायिनम्) गृहादिसामग्रीयुक्तम् (घृतवन्तम्) बहुघृतादिवन्तम् (सवित्रे) जगदुत्पादकाय (यज्ञम्) सङ्गतिमयं व्यवहारम् (नय) प्रापय (यजमानाय) सङ्गतिकरणविद्याविदे (साधु) ॥१६॥

    भावार्थः - हे विद्वांसो ! राजजना यूयं विद्वत्सहायेन न्यायगृहेषु स्थित्वा न्यायं कुरुत सर्वान् मनुष्यान् न्यायपथं नयत येन सर्वे सन्मार्गस्थाः सन्तः परोपकारिणः स्युः ॥१६॥

    इस भाष्य को एडिट करें
    Top