ऋग्वेद - मण्डल 6/ सूक्त 15/ मन्त्र 17
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - अग्निः
छन्दः - विराडनुष्टुप्
स्वरः - गान्धारः
इ॒ममु॒ त्यम॑थर्व॒वद॒ग्निं म॑न्थन्ति वे॒धसः॑। यम॑ङ्कू॒यन्त॒मान॑य॒न्नमू॑रं श्या॒व्या॑भ्यः ॥१७॥
स्वर सहित पद पाठइ॒मम् । ऊँ॒ इति॑ । त्यम् । अ॒थ॒र्व॒ऽवत् । अ॒ग्निम् । म॒न्थ॒न्ति॒ । वे॒धसः॑ । यम् । अ॒ङ्कु॒ऽयन्त॑म् । आ । अन॑यन् । अमू॑रम् । स्या॒व्या॑भ्यः ॥
स्वर रहित मन्त्र
इममु त्यमथर्ववदग्निं मन्थन्ति वेधसः। यमङ्कूयन्तमानयन्नमूरं श्याव्याभ्यः ॥१७॥
स्वर रहित पद पाठइमम्। ऊँ इति। त्यम्। अथर्वऽवत्। अग्निम्। मन्थन्ति। वेधसः। यम्। अङ्कुऽयन्तम्। आ। अनयन्। अमूरम्। श्याव्याभ्यः ॥१७॥
ऋग्वेद - मण्डल » 6; सूक्त » 15; मन्त्र » 17
अष्टक » 4; अध्याय » 5; वर्ग » 20; मन्त्र » 2
अष्टक » 4; अध्याय » 5; वर्ग » 20; मन्त्र » 2
विषयः - पुनर्विद्युतं कस्मान्निस्सारयेयुरित्याह ॥
अन्वयः - हे मनुष्या ! वेधसः श्याव्याभ्यो यमङ्कूयन्तमिममु त्यमग्निमथर्ववदमूरं मन्थन्ति कार्य्यसिद्धिमाऽऽनयंस्तं यूयमपि मथित्वा कार्य्याणि साध्नुत ॥१७॥
पदार्थः -
(इमम्) प्रत्यक्षम् (उ) (त्यम्) परोक्षम् (अथर्ववत्) यथाऽथर्ववेदे मन्थनं विहितम् (अग्निम्) विद्युतम् (मन्थन्ति) (वेधसः) मेधाविनो विपश्चितः (यम्) (अङ्कूयन्तम्) यस्मिन्नङ्कूनि प्रसिद्धानि चिह्नानि प्राप्नुवन्ति। अत्र संहितायामिति दीर्घः। (आ) (अनयन्) नयन्ति (अमूरम्) अमूढम् (श्याव्याभ्यः) श्यावीषु रात्रिषु भवाभ्यः क्रियाभ्यः। श्यावीति रात्रिनाम। (निघं०१.७) ॥१७॥
भावार्थः - ये विद्वांसो भूम्यन्तरिक्षवाय्वाकाशसूर्य्यादिभ्यो मथित्वा विद्युतं निःसारयन्ति तेऽनेकानि कार्य्याण्यलङ्कर्तुं शक्नुवन्ति ॥१७॥
इस भाष्य को एडिट करें