ऋग्वेद - मण्डल 6/ सूक्त 15/ मन्त्र 18
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - अग्निः
छन्दः - स्वराडनुष्टुप्
स्वरः - गान्धारः
जनि॑ष्वा दे॒ववी॑तये स॒र्वता॑ता स्व॒स्तये॑। आ दे॒वान् व॑क्ष्य॒मृताँ॑ ऋता॒वृधो॑ य॒ज्ञं दे॒वेषु॑ पिस्पृशः ॥१८॥
स्वर सहित पद पाठजनि॑ष्व । दे॒वऽवी॑तये । स॒र्वऽता॑ता । स्व॒स्तये॑ । आ । दे॒वान् । व॒क्षि॒ । अ॒मृता॑न् । ऋ॒त॒ऽवृधः॑ । य॒ज्ञम् । दे॒वेषु॑ । पि॒स्पृ॒शः॒ ॥
स्वर रहित मन्त्र
जनिष्वा देववीतये सर्वताता स्वस्तये। आ देवान् वक्ष्यमृताँ ऋतावृधो यज्ञं देवेषु पिस्पृशः ॥१८॥
स्वर रहित पद पाठजनिष्व। देवऽवीतये। सर्वऽताता। स्वस्तये। आ। देवान्। वक्षि। अमृतान्। ऋतऽवृधः। यज्ञम्। देवेषु। पिस्पृशः ॥१८॥
ऋग्वेद - मण्डल » 6; सूक्त » 15; मन्त्र » 18
अष्टक » 4; अध्याय » 5; वर्ग » 20; मन्त्र » 3
अष्टक » 4; अध्याय » 5; वर्ग » 20; मन्त्र » 3
विषयः - मनुष्यैः सृष्टेः कः क उपकारो ग्रहीतव्य इत्याह ॥
अन्वयः - हे विद्वंस्त्वं देववीतये स्वस्तये सर्वताताऽमृतानृतावृधो देवानाऽऽवक्षि देवेषु यज्ञं पिस्पृशोऽनेन सुखानि जनिष्वा ॥१८॥
पदार्थः -
(जनिष्वा) जनय। अत्र संहितायामिति दीर्घः। (देववीतये) दिव्यगुणप्राप्तये (सर्वताता) सर्वसुखकरे शिल्पमये यज्ञे (स्वस्तये) सुखलब्धये (आ) (देवान्) दिव्यान् गुणान् भोगान् वा (वक्षि) वह (अमृतान्) नाशरहितान् (ऋतावृधः) सत्यव्यवहारवर्धकान् (यज्ञम्) सुखप्रदम् (देवेषु) विद्वत्सु (पिस्पृशः) स्पर्शय ॥१८॥
भावार्थः - विद्वद्भिः सृष्टिस्थपदार्थेभ्यो विद्यया दिव्यान् भोगान् प्राप्य स्वार्थं बहुविधं सुखं जननीयम् ॥१८॥
इस भाष्य को एडिट करें