ऋग्वेद - मण्डल 6/ सूक्त 17/ मन्त्र 15
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - इन्द्र:
छन्दः - आर्च्युष्णिक्
स्वरः - ऋषभः
अ॒या वाजं॑ दे॒वहि॑तं सनेम॒ मदे॑म श॒तहि॑माः सु॒वीराः॑ ॥१५॥
स्वर सहित पद पाठअ॒या । वाज॑म् । दे॒वऽहि॑तम् । स॒ने॒म॒ । मदे॑म । श॒तऽहि॑माः । सु॒ऽवीराः॑ ॥
स्वर रहित मन्त्र
अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः ॥१५॥
स्वर रहित पद पाठअया। वाजम्। देवऽहितम्। सनेम। मदेम। शतऽहिमाः। सुऽवीराः ॥१५॥
ऋग्वेद - मण्डल » 6; सूक्त » 17; मन्त्र » 15
अष्टक » 4; अध्याय » 6; वर्ग » 3; मन्त्र » 5
अष्टक » 4; अध्याय » 6; वर्ग » 3; मन्त्र » 5
विषयः - पुनस्तमेव विषयमाह ॥
अन्वयः - हे राजन् ! यथा शतहिमाः सुवीराः सन्तो वयं देवहितं वाजं सनेम मदेम ॥१५॥
पदार्थः -
(अया) अनया नीत्या (वाजम्) विज्ञानम् (देवहितम्) देवेभ्यो हितकारिणम् (सनेम) विभजेम (मदेम) आनन्देम (शतहिमाः) शतवर्षजीविनः (सुवीराः) उत्तमवीरयुक्ताः ॥१५॥
भावार्थः - राज्ञा विद्वत्सङ्गो विनयेन राज्यपालनायोत्तमवीरा अधिकर्त्तव्या ॥१५॥ अत्राग्निविद्वद्राजामात्यप्रजाकृत्यवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥ इति सप्तदशं सूक्तं तृतीयो वर्गश्च समाप्तः ॥
इस भाष्य को एडिट करें