Loading...
ऋग्वेद मण्डल - 6 के सूक्त 18 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 18/ मन्त्र 1
    ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - इन्द्र: छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    तमु॑ ष्टुहि॒ यो अ॒भिभू॑त्योजा व॒न्वन्नवा॑तः पुरुहू॒त इन्द्रः॑। अषा॑ळ्हमु॒ग्रं सह॑मानमा॒भिर्गी॒र्भिर्व॑र्ध वृष॒भं च॑र्षणी॒नाम् ॥१॥

    स्वर सहित पद पाठ

    तम् । ऊँ॒ इति॑ । स्तु॒हि॒ । यः । अ॒भिभू॑तिऽओजाः । व॒न्वन् । अवा॑तः । पु॒रु॒ऽहू॒तः । इन्द्रः॑ । अषा॑ळ्हम् । उ॒ग्रम् । सह॑मानम् । आ॒भिः । गीः॒ऽभिः । व॒र्ध॒ । वृ॒ष॒भम् । च॒र्ष॒णी॒नाम् ॥


    स्वर रहित मन्त्र

    तमु ष्टुहि यो अभिभूत्योजा वन्वन्नवातः पुरुहूत इन्द्रः। अषाळ्हमुग्रं सहमानमाभिर्गीर्भिर्वर्ध वृषभं चर्षणीनाम् ॥१॥

    स्वर रहित पद पाठ

    तम्। ऊँ इति। स्तुहि। यः। अभिभूतिऽओजाः। वन्वन्। अवातः। पुरुऽहूतः। इन्द्रः। अषाळ्हम्। उग्रम्। सहमानम्। आभिः। गीःऽभिः। वर्ध। वृषभम्। चर्षणीनाम् ॥१॥

    ऋग्वेद - मण्डल » 6; सूक्त » 18; मन्त्र » 1
    अष्टक » 4; अध्याय » 6; वर्ग » 4; मन्त्र » 1

    अन्वयः - हे राजन् ! योऽभिभूत्योजा अवातः पुरुहूतो वन्वन्निन्द्रोऽस्ति तमषाळ्हमुग्रं चर्षणीनां वृषभं सहमानमाभिर्गीभिः स्तुह्यु तेन वर्ध ॥१॥

    पदार्थः -
    (तम्) (उ) (स्तुहि) (यः) (अभिभूत्योजाः) अभिभूतये शत्रूणां पराभवायौजः पराक्रमो यस्य सः (वन्वन्) विभजन् (अवातः) अहिंसितः (पुरुहूतः) बहुभिः प्रशंसितः (इन्द्रः) दुःखविदारकः (अषाळ्हम्) असोढव्यम् (उग्रम्) तीव्रस्वभावम् (सहमानम्) शत्रूणां वेगस्य सोढारम् (आभिः) (गीभिः) वाग्भिः (वर्ध) वर्धस्व। अत्र व्यत्ययेन परस्मैपदम्। (वृषभम्) अतिश्रेष्ठम् (चर्षणीनाम्) मनुष्याणाम् ॥१॥

    भावार्थः - हे राजंस्त्वं सदा स्तोतव्यं स्तुहि निन्दनीयं निन्द सत्कर्त्तव्यं सत्कुरु दण्डनीयं दण्डय ॥१॥

    इस भाष्य को एडिट करें
    Top