ऋग्वेद - मण्डल 6/ सूक्त 21/ मन्त्र 12
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - इन्द्र:
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
स नो॑ बोधि पुरए॒ता सु॒गेषू॒त दु॒र्गेषु॑ पथि॒कृद्विदा॑नः। ये अश्र॑मास उ॒रवो॒ वहि॑ष्ठा॒स्तेभि॑र्न इन्द्रा॒भि व॑क्षि॒ वाज॑म् ॥१२॥
स्वर सहित पद पाठसः । नः॒ । बो॒धि॒ । पु॒रः॒ऽए॒ता । सु॒ऽगेषु॑ । उ॒त । दुः॒ऽगेषु॑ । प॒थि॒ऽकृत् । विदा॑नः । ये । अश्र॑मासः । उ॒रवः॑ । वहि॑ष्ठाः । तेभिः॑ । नः॒ । इ॒न्द्र॑ । अ॒भि । व॒क्षि॒ । वाज॑म् ॥
स्वर रहित मन्त्र
स नो बोधि पुरएता सुगेषूत दुर्गेषु पथिकृद्विदानः। ये अश्रमास उरवो वहिष्ठास्तेभिर्न इन्द्राभि वक्षि वाजम् ॥१२॥
स्वर रहित पद पाठसः। नः। बोधि। पुरःऽएता। सुऽगेषु। उत। दुःऽगेषु। पथिऽकृत्। विदानः। ये। अश्रमासः। उरवः। वहिष्ठाः। तेभिः। नः। इन्द्र। अभि। वक्षि। वाजम् ॥१२॥
ऋग्वेद - मण्डल » 6; सूक्त » 21; मन्त्र » 12
अष्टक » 4; अध्याय » 6; वर्ग » 12; मन्त्र » 7
अष्टक » 4; अध्याय » 6; वर्ग » 12; मन्त्र » 7
विषयः - पुनस्तमेव विषयमाह ॥
अन्वयः - हे इन्द्र ! स त्वं पुरएता सुगेषूत दुर्गेषु पथिकृद्विदानो नोऽस्मान् बोधि। य अश्रमास उरवो वहिष्ठाः सन्ति तेभिस्सह नो वाजमभि वक्षि ॥१२॥
पदार्थः -
(सः) (नः) अस्मानस्माकं वा (बोधि) (पुरएता) यः पुर एति गच्छति सः (सुगेषु) सुगमेषु व्यवहारेषु (उत) अपि (दुर्गेषु) दुःखेन गन्तुं योग्येषु (पथिकृत्) यः पन्थानं करोति (विदानः) विजानन् (ये) (अश्रमासः) श्रमरहिताः (उरवः) बहवः (वहिष्ठाः) अतिशयेन वोढारः (तेभिः) तैः (नः) अस्मान् (इन्द्र) सुखैश्वर्यप्रापक (अभि) (वक्षि) प्रापय (वाजम्) विज्ञानम् ॥१२॥
भावार्थः - स एवास्ति विद्वान्त्सर्वेषां मङ्गलकारी यः स्वयं धर्ममार्गं गत्वाऽन्यान् धर्ममार्गगन्तॄन् कुर्यात् यः सदा सत्सङ्गं करोति स एव सर्वेभ्य उत्तमो भूत्वा विज्ञानं दातुमर्हतीति ॥१२॥ अत्रेन्द्रविद्वदीश्वरराजगुणवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥ इत्येकविंशतितमं सूक्तं द्वादशो वर्गश्च समाप्तः ॥
इस भाष्य को एडिट करें