Loading...
ऋग्वेद मण्डल - 6 के सूक्त 23 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 23/ मन्त्र 9
    ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - इन्द्र: छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    तं वः॑ सखायः॒ सं यथा॑ सु॒तेषु॒ सोमे॑भिरीं पृणता भो॒जमिन्द्र॑म्। कु॒वित्तस्मा॒ अस॑ति नो॒ भरा॑य॒ न सुष्वि॒मिन्द्रोऽव॑से मृधाति ॥९॥

    स्वर सहित पद पाठ

    तम् । वः॒ । स॒खा॒यः॒ । सम् । यथा॑ । सु॒तेषु॑ । सोमे॑भिः । ई॒म् । पृ॒ण॒त॒ । भो॒जम् । इन्द्र॑म् । कु॒वित् । तस्मै॑ । अस॑ति । नः॒ । भरा॑य । न । सुस्वि॑म् । इन्द्रः॑ । अव॑से । मृ॒धा॒ति॒ ॥


    स्वर रहित मन्त्र

    तं वः सखायः सं यथा सुतेषु सोमेभिरीं पृणता भोजमिन्द्रम्। कुवित्तस्मा असति नो भराय न सुष्विमिन्द्रोऽवसे मृधाति ॥९॥

    स्वर रहित पद पाठ

    तम्। वः। सखायः। सम्। यथा। सुतेषु। सोमेभिः। ईम्। पृणत। भोजम्। इन्द्रम्। कुवित्। तस्मै। असति। नः। भराय। न। सुस्विम्। इन्द्रः। अवसे। मृधाति ॥९॥

    ऋग्वेद - मण्डल » 6; सूक्त » 23; मन्त्र » 9
    अष्टक » 4; अध्याय » 6; वर्ग » 16; मन्त्र » 4

    अन्वयः - हे सखायो ! यथा सोमेभिः सुतेषु वो नश्च भरायावसे य इन्द्रो न मृधाति तं भोजं सुष्विमिन्द्रं यूयं सं पृणता तस्मा ईं कुविदसति ॥९॥

    पदार्थः -
    (तम्) (वः) युष्माकम् (सखायः) सुहृदः (सम्) (यथा) (सुतेषु) निष्पन्नेषु (सोमेभिः) ऐश्वर्यप्रेरणादिक्रियाभिः (ईम्) उदकेन (पृणता) सुखयत। अत्र संहितायामिति दीर्घः। (भोजम्) पालकम् (इन्द्रम्) शत्रुविनाशकं राजानम् (कुवित्) महत् (तस्मै) (असति) भवेत् (नः) अस्माकम् (भराय) पालनाय (न) निषेधे (सुष्विम्) सोतारमैश्वर्यकारकम् (इन्द्रः) राजा (अवसे) रक्षणाद्याय (मृधाति) हिंस्यात् ॥९॥

    भावार्थः - ये मनुष्या रागद्वेषौ विहाय परस्परं रक्षणं विदधति ते महत्सुखमाप्नुवन्ति ॥९॥

    इस भाष्य को एडिट करें
    Top