ऋग्वेद - मण्डल 6/ सूक्त 23/ मन्त्र 10
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - इन्द्र:
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
ए॒वेदिन्द्रः॑ सु॒ते अ॑स्तावि॒ सोमे॑ भ॒रद्वा॑जेषु॒ क्षय॒दिन्म॒घोनः॑। अस॒द्यथा॑ जरि॒त्र उ॒त सू॒रिरिन्द्रो॑ रा॒यो वि॒श्ववा॑रस्य दा॒ता ॥१०॥
स्वर सहित पद पाठए॒व । इत् । इन्द्रः॑ । सु॒ते । अ॒स्ता॒वि॒ । सोमे॑ । भ॒रत्ऽवा॑जेषु । क्षय॑त् । इत् । म॒घोनः॑ । अस॑त् । यथा॑ । ज॒रि॒त्रे । उ॒त । सू॒रिः । इन्द्रः॑ । रा॒यः । वि॒श्वऽवा॑रस्य । दा॒ता ॥
स्वर रहित मन्त्र
एवेदिन्द्रः सुते अस्तावि सोमे भरद्वाजेषु क्षयदिन्मघोनः। असद्यथा जरित्र उत सूरिरिन्द्रो रायो विश्ववारस्य दाता ॥१०॥
स्वर रहित पद पाठएव। इत्। इन्द्रः। सुते। अस्तावि। सोमे। भरत्ऽवाजेषु। क्षयत्। इत्। मघोनः। असत्। यथा। जरित्रे। उत। सूरिः। इन्द्रः। रायः। विश्वऽवारस्य। दाता ॥१०॥
ऋग्वेद - मण्डल » 6; सूक्त » 23; मन्त्र » 10
अष्टक » 4; अध्याय » 6; वर्ग » 16; मन्त्र » 5
अष्टक » 4; अध्याय » 6; वर्ग » 16; मन्त्र » 5
विषयः - पुनस्तमेव विषयमाह ॥
अन्वयः - हे मनुष्या ! यथेन्द्रः सुते सोम इद्भरद्वाजेष्वस्तावि यथा सूरिरिन्द्रो जरित्रे विश्ववारस्य रायो दातोत क्षयदिन्मघोनो रक्षमाणोऽस्ति स इदेव तथा सुख्यसत् ॥१०॥
पदार्थः -
(एव) (इत्) अपि (इन्द्रः) परमैश्वर्यः (सुते) निष्पन्नेऽस्मिञ्जगति (अस्तावि) स्तूयते (सोमे) ऐश्वर्ये (भरद्वाजेषु) धृतविज्ञानेषु (क्षयत्) निवसेत् (इत्) अपि (मघोनः) धनाढ्यान् (असत्) भवेत् (यथा) (जरित्रे) स्तावकाय (उत) अपि (सूरिः) विद्वान् (इन्द्रः) (रायः) धनस्य (विश्ववारस्य) विश्वे सर्वे वारा स्वीकारा यस्मिंस्तस्य (दाता) ॥१०॥
भावार्थः - अत्रोपमालङ्कारः । ये मनुष्या अस्मिञ्जगति धर्म्याणि कर्माणि कुर्वन्ति ते सर्वदा स्तूयन्ते यथा दानं प्रियकारकं भवति तथा ह्यादानं न भवतीति ॥१०॥ अत्रेन्द्रविद्वद्राजप्रजागुणवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥ इत्यृग्वेदभाष्ये षष्ठे मण्डले द्वितीयोऽनुवाकस्त्रयोविंशं सूक्तं षोडशो वर्गश्च समाप्तः ॥
इस भाष्य को एडिट करें