ऋग्वेद - मण्डल 6/ सूक्त 24/ मन्त्र 1
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - इन्द्र:
छन्दः - भुरिक्पङ्क्ति
स्वरः - पञ्चमः
वृषा॒ मद॒ इन्द्रे॒ श्लोक॑ उ॒क्था सचा॒ सोमे॑षु सुत॒पा ऋ॑जी॒षी। अ॒र्च॒त्र्यो॑ म॒घवा॒ नृभ्य॑ उ॒क्थैर्द्यु॒क्षो राजा॑ गि॒रामक्षि॑तोतिः ॥१॥
स्वर सहित पद पाठवृषा॑ । मदः॑ । इन्द्रे॑ । श्लोकः॑ । उ॒क्था । सचा॑ । सोमे॑षु । सु॒त॒ऽपाः । ऋ॒जी॒षी । अ॒र्च॒त्र्यः॑ । म॒घऽवा॑ । नृऽभ्यः॑ । उ॒क्थैः । द्यु॒क्षः । राजा॑ । गि॒राम् । अक्षि॑तऽऊतिः ॥
स्वर रहित मन्त्र
वृषा मद इन्द्रे श्लोक उक्था सचा सोमेषु सुतपा ऋजीषी। अर्चत्र्यो मघवा नृभ्य उक्थैर्द्युक्षो राजा गिरामक्षितोतिः ॥१॥
स्वर रहित पद पाठवृषा। मदः। इन्द्रे। श्लोकः। उक्था। सचा। सोमेषु। सुतऽपाः। ऋजीषी। अर्चत्र्यः। मघऽवा। नृऽभ्यः। उक्थैः। द्युक्षः। राजा। गिराम्। अक्षितऽऊतिः ॥१॥
ऋग्वेद - मण्डल » 6; सूक्त » 24; मन्त्र » 1
अष्टक » 4; अध्याय » 6; वर्ग » 17; मन्त्र » 1
अष्टक » 4; अध्याय » 6; वर्ग » 17; मन्त्र » 1
विषयः - अथ राज्ञा किं कर्त्तव्यमित्याह ॥
अन्वयः - हे मनुष्या ! य इन्द्रे श्लोको वृषा मदः सचा सुतपा ऋजीषी मघवाक्षितोतिः द्युक्षा राजोक्थैः सोमेषूक्था गिरां नृभ्यो या अर्चत्र्यः प्रजास्तासां श्रोता भवेत् स एव राज्यं कर्तुमर्हेदिति विजानीत ॥१॥
पदार्थः -
(वृषा) बलिष्ठः (मदः) आनन्दितः (इन्द्रे) ऐश्वर्यवति (श्लोकः) वाक् (उक्था) प्रशंसितानि कर्माणि (सचा) समवेताः (सोमेषु) ऐश्वर्येषु (सुतपाः) सुष्ठुतपस्वी (ऋजीषी) सरलगुणकर्मस्वभावः (अर्चत्र्यः) सत्कारं कुर्वत्यः प्रजाः (मघवा) न्यायोपार्जितधनः (नृभ्यः) मनुष्येभ्यः (उक्थैः) प्रशंसनीयैः कर्मभिः (द्युक्षः) द्युतिमान् (राजा) (गिराम्) न्यायविद्यायुक्तानां वाचाम् (अक्षितोतिः) नित्यरक्षः ॥१॥
भावार्थः - हे मनुष्या ! य उत्तमानि कर्माणि कृत्वा सत्यवादी जितेन्द्रियः पितृवत्प्रजापालको वर्तेत स एव सर्वत्र प्रकाशितकीर्तिर्भवेत् ॥१॥
इस भाष्य को एडिट करें