ऋग्वेद - मण्डल 6/ सूक्त 24/ मन्त्र 6
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - इन्द्र:
छन्दः - ब्राह्मीबृहती
स्वरः - मध्यमः
वि त्वदापो॒ न पर्व॑तस्य पृ॒ष्ठादु॒क्थेभि॑रिन्द्रानयन्त य॒ज्ञैः। तं त्वा॒भिः सु॑ष्टु॒तिभि॑र्वा॒जय॑न्त आ॒जिं न ज॑ग्मुर्गिर्वाहो॒ अश्वाः॑ ॥६॥
स्वर सहित पद पाठवि । त्वत् । आपः॑ । न । पर्व॑तस्य । पृ॒ष्ठात् । उ॒क्थेभिः॑ । इ॒न्द्र॒ । अ॒न॒य॒न्त॒ । य॒ज्ञैः । तम् । त्वा॒ । आ॒भिः । सु॒स्तु॒तिऽभिः॑ । वा॒जय॑न्तः । आ॒जिम् । न । ज॒ग्मुः॒ । गि॒र्वा॒हः॒ । अश्वाः॑ ॥
स्वर रहित मन्त्र
वि त्वदापो न पर्वतस्य पृष्ठादुक्थेभिरिन्द्रानयन्त यज्ञैः। तं त्वाभिः सुष्टुतिभिर्वाजयन्त आजिं न जग्मुर्गिर्वाहो अश्वाः ॥६॥
स्वर रहित पद पाठवि। त्वत्। आपः। न। पर्वतस्य। पृष्ठात्। उक्थेभिः। इन्द्र। अनयन्त। यज्ञैः। तम्। त्वा। आभिः। सुस्तुतिऽभिः। वाजयन्तः। आजिम्। न। जग्मुः। गिर्वाहः। अश्वाः ॥६॥
ऋग्वेद - मण्डल » 6; सूक्त » 24; मन्त्र » 6
अष्टक » 4; अध्याय » 6; वर्ग » 18; मन्त्र » 1
अष्टक » 4; अध्याय » 6; वर्ग » 18; मन्त्र » 1
विषयः - पुनस्तमेव विषयमाह ॥
अन्वयः - हे इन्द्र ! ये त्वद्रक्षिताः पर्वतस्य पृष्ठादापो नोक्थेभिर्यज्ञैर्यं त्वा गिर्वाहोऽश्वा व्यनयन्त तं त्वामाभिस्सुष्टुतिभिर्वाजयन्तः शूरा आजिन्न जग्मुः ॥६॥
पदार्थः -
(वि) विशेषे (त्वत्) (आपः) जलानि (न) इव (पर्वतस्य) शैलस्य (पृष्ठात्) (उक्थेभिः) प्रशंसनीयैः कर्मभिः (इन्द्र) राजन् (अनयन्त) नयन्ति (यज्ञैः) सत्कर्मानुष्ठानैः (तम्) (त्वा) त्वाम् (आभिः) प्रत्यक्षाभिः (सुष्टुतिभिः) (वाजयन्तः) हर्षयन्तः (आजिम्) सङ्ग्रामम् (न) इव (जग्मुः) गच्छेयुः (गिर्वाहः) ये गिरो वहन्ति प्रापयन्ति ते (अश्वाः) महान्तो विद्वांसः। अश्व इति महन्नामसु पठितम्। (निघं०१.१४) ॥६॥
भावार्थः - अत्रोपमालङ्कारः । हे राजन् ! यथा पर्वतोपरिष्टाज्जलं सद्यो गत्वा जलाशयं प्राप्नोति तथा ये भवत्प्रजाहितैषिणो भवन्तं प्राप्नुवन्ति तैस्सहित एव सदोन्नतो भवेः ॥६॥
इस भाष्य को एडिट करें