Loading...
ऋग्वेद मण्डल - 6 के सूक्त 24 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 24/ मन्त्र 7
    ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - इन्द्र: छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    न यं जर॑न्ति श॒रदो॒ न मासा॒ न द्याव॒ इन्द्र॑मवक॒र्शय॑न्ति। वृ॒द्धस्य॑ चिद्वर्धतामस्य त॒नूः स्तोमेभि॑रु॒क्थैश्च॑ श॒स्यमा॑ना ॥७॥

    स्वर सहित पद पाठ

    न । यम् । जर॑न्ति । श॒रदः॑ । न । मासाः॑ । न । द्यावः॑ । इन्द्र॑म् । अ॒व॒ऽक॒र्शय॑न्ति । वृ॒द्धस्य॑ । चि॒त् । व॒र्ध॒ता॒म् । अ॒स्य॒ । त॒नूः । स्तोमे॑भिः । उ॒क्थैः । च॒ । श॒स्यमा॑ना ॥


    स्वर रहित मन्त्र

    न यं जरन्ति शरदो न मासा न द्याव इन्द्रमवकर्शयन्ति। वृद्धस्य चिद्वर्धतामस्य तनूः स्तोमेभिरुक्थैश्च शस्यमाना ॥७॥

    स्वर रहित पद पाठ

    न। यम्। जरन्ति। शरदः। न। मासाः। न। द्यावः। इन्द्रम्। अवऽकर्शयन्ति। वृद्धस्य। चित्। वर्धताम्। अस्य। तनूः। स्तोमेभिः। उक्थैः। च। शस्यमाना ॥७॥

    ऋग्वेद - मण्डल » 6; सूक्त » 24; मन्त्र » 7
    अष्टक » 4; अध्याय » 6; वर्ग » 18; मन्त्र » 2

    अन्वयः - हे विद्वांसो ! यस्यास्य वृद्धस्य तनूः स्तोमेभिरुक्थैश्च शस्यमाना चिद्वर्धतां यमिन्द्रं परमात्मानं शरदो न जरन्ति मासा न जरन्ति द्यावो नाऽवकर्शयन्ति तं विद्वांसं परमात्मानं च यूयं सेवध्वम् ॥७॥

    पदार्थः -
    (न) निषेधे (यम्) (जरन्ति) जीर्णं कुर्वन्ति (शरदः) शरदाद्या ऋतवः (न) (मासाः) चैत्राद्याः (न) (द्यावः) सूर्यादयः (इन्द्रम्) परमात्मानम् (अवकर्शयन्ति) कृशं कर्तुं शक्नुवन्ति (वृद्धस्य) (चित्) अपि (वर्धताम्) (अस्य) जीवस्य (तनूः) शरीरम् (स्तोमेभिः) स्तुत्यैः (उक्थैः) वक्तुमर्हैः (च) (शस्यमाना) स्तवनीया ॥७॥

    भावार्थः - स एव विद्वान् वृद्धो भूत्वा वर्धते यः सर्वान्त्सुप्रज्ञान् सुशीलान् धर्माचारान् करोति ये निर्विकारं जन्ममरणजरादिदोषरहितं परमात्मानमुपासते ते प्रशंसनीया जायन्ते ॥७॥

    इस भाष्य को एडिट करें
    Top