Loading...
ऋग्वेद मण्डल - 6 के सूक्त 24 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 24/ मन्त्र 9
    ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - इन्द्र: छन्दः - पङ्क्तिः स्वरः - पञ्चमः

    ग॒म्भी॒रेण॑ न उ॒रुणा॑मत्रि॒न्प्रेषो य॑न्धि सुतपाव॒न्वाजा॑न्। स्था ऊ॒ षु ऊ॒र्ध्व ऊ॒ती अरि॑षण्यन्न॒क्तोर्व्यु॑ष्टौ॒ परि॑तक्म्यायाम् ॥९॥

    स्वर सहित पद पाठ

    ग॒म्भी॒रेण॑ । नः॒ । उ॒रुणा॑ । अ॒म॒त्रि॒न् । प्र । इ॒षः । य॒न्धि॒ । सु॒त॒ऽपा॒व॒न् । वाजा॑न् । स्थाः । ऊँ॒ इति॑ । सु । ऊ॒र्ध्वः । ऊ॒ती । अरि॑षण्यन् । अ॒क्तोः । विऽउ॑ष्टौ । परि॑ऽतक्म्यायाम् ॥


    स्वर रहित मन्त्र

    गम्भीरेण न उरुणामत्रिन्प्रेषो यन्धि सुतपावन्वाजान्। स्था ऊ षु ऊर्ध्व ऊती अरिषण्यन्नक्तोर्व्युष्टौ परितक्म्यायाम् ॥९॥

    स्वर रहित पद पाठ

    गम्भीरेण। नः। उरुणा। अमत्रिन्। प्र। इषः। यन्धि। सुतऽपावन्। वाजान्। स्थाः। ऊँ इति। सु। ऊर्ध्वः। ऊती। अरिषण्यन्। अक्तोः। विऽउष्टौ। परिऽतक्म्यायाम् ॥९॥

    ऋग्वेद - मण्डल » 6; सूक्त » 24; मन्त्र » 9
    अष्टक » 4; अध्याय » 6; वर्ग » 18; मन्त्र » 4

    अन्वयः - हे अमत्रिन्त्सुतपावंस्त्वं गम्भीरेणोरुणा न इषो यन्धि। उ ऊती उर्ध्वोऽरिषण्यन्नक्तोर्व्युष्टौ परितक्म्यायां वाजान् सुप्र स्थाः ॥९॥

    पदार्थः -
    (गम्भीरेण) अगाधेन (नः) अस्मभ्यम् (उरुणा) बहुना (अमत्रिन्) बहुबलयुक्त (प्र) (इषः) अन्नादीन् (यन्धि) नियच्छ (सुतपावन्) यः सुतान्निष्पन्नान् पदार्थान् पुनाति (वाजान्) विज्ञानादीनि (स्थाः) तिष्ठेः (उ) (सु) (ऊर्ध्वः) (ऊती) रक्षणाद्यायाः (अरिषण्यन्) अहिंसयन् (अक्तोः) रात्रेः (व्युष्टौ) प्रभाते (परितक्म्यायाम्) निशि ॥९॥

    भावार्थः - ये यमनियमान्विताः कार्यसिद्धयेऽहर्निशं प्रयत्नमातिष्ठेयुस्त उत्कृष्टा जायन्ते ॥९॥

    इस भाष्य को एडिट करें
    Top