Loading...
ऋग्वेद मण्डल - 6 के सूक्त 26 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 26/ मन्त्र 2
    ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - इन्द्र: छन्दः - भुरिक्पङ्क्ति स्वरः - पञ्चमः

    त्वां वा॒जी ह॑वते वाजिने॒यो म॒हो वाज॑स्य॒ गध्य॑स्य सा॒तौ। त्वां वृ॒त्रेष्वि॑न्द्र॒ सत्प॑तिं॒ तरु॑त्रं॒ त्वां च॑ष्टे मुष्टि॒हा गोषु॒ युध्य॑न् ॥२॥

    स्वर सहित पद पाठ

    त्वाम् । वा॒जी । ह॒व॒ते॒ । वा॒जि॒ने॒यः । म॒हः । वाज॑स्य । गध्य॑स्य । सा॒तौ । त्वाम् । वृ॒त्रेषु॑ । इ॒न्द्र॒ । सत्ऽप॑तिम् । तरु॑त्रम् । त्वाम् । च॒ष्टे॒ । मु॒ष्टि॒ऽहा । गोषु॑ । युध्य॑न् ॥


    स्वर रहित मन्त्र

    त्वां वाजी हवते वाजिनेयो महो वाजस्य गध्यस्य सातौ। त्वां वृत्रेष्विन्द्र सत्पतिं तरुत्रं त्वां चष्टे मुष्टिहा गोषु युध्यन् ॥२॥

    स्वर रहित पद पाठ

    त्वाम्। वाजी। हवते। वाजिनेयः। महः। वाजस्य। गध्यस्य। सातौ। त्वाम्। वृत्रेषु। इन्द्र। सत्ऽपतिम्। तरुत्रम्। त्वाम्। चष्टे। मुष्टिऽहा। गोषु। युध्यन् ॥२॥

    ऋग्वेद - मण्डल » 6; सूक्त » 26; मन्त्र » 2
    अष्टक » 4; अध्याय » 6; वर्ग » 21; मन्त्र » 2

    अन्वयः - हे इन्द्र ! यथा वाजिनेयो वाजी गध्यस्य वाजस्य सातौ त्वां हवते तथा वृत्रेषु सत्पतिं त्वां महश्चष्टे गोषु युध्यन् मुष्टिहा घ्नन् वृत्रेषु त्वां तरुत्रं चष्टे ॥२॥

    पदार्थः -
    (त्वाम्) राजानम् (वाजी) वेगवान् ज्ञानी जनः (हवते) श्रावयेत् (वाजिनेयः) वाजिन्या ज्ञानवत्या अपत्यम् (महः) महान्तम् (वाजस्य) विज्ञानस्य (गध्यस्य) सर्वैः प्राप्तुं योग्यस्य (सातौ) संविभागे (त्वाम्) (वृत्रेषु) धनेषु (इन्द्र) दुष्टानां विनाशक (सत्पतिम्) सतां पात्रम् (तरुत्रम्) तारकम् (त्वाम्) (चष्टे) कथयामि (मुष्टिहा) यो मुष्ट्या हन्ति (गोषु) प्राप्तव्यासु भूमिषु (युध्यन्) ॥२॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। हे राजन् ! यत्र प्रजाजना त्वामुपस्थातुमिच्छन्ति तत्र तत्र त्वमुपस्थितो भव ॥२॥

    इस भाष्य को एडिट करें
    Top