Loading...
ऋग्वेद मण्डल - 6 के सूक्त 26 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 26/ मन्त्र 3
    ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - इन्द्र: छन्दः - निचृत्पङ्क्ति स्वरः - पञ्चमः

    त्वं क॒विं चो॑दयो॒ऽर्कसा॑तौ॒ त्वं कुत्सा॑य॒ शुष्णं॑ दा॒शुषे॑ वर्क्। त्वं शिरो॑ अम॒र्मणः॒ परा॑हन्नतिथि॒ग्वाय॒ शंस्यं॑ करि॒ष्यन् ॥३॥

    स्वर सहित पद पाठ

    त्वम् । क॒विम् । चो॒द॒यः॒ । अ॒र्कऽसा॑तौ । त्वम् । कुत्सा॑य । शुष्ण॑म् । दा॒शुषे॑ । व॒र्क् । त्वम् । शिरः॑ । अ॒म॒र्मणः॑ । परा॑ । अ॒ह॒न् । अ॒ति॒थि॒ऽग्वाय॑ । शंस्य॑म् । क॒रि॒ष्यन् ॥


    स्वर रहित मन्त्र

    त्वं कविं चोदयोऽर्कसातौ त्वं कुत्साय शुष्णं दाशुषे वर्क्। त्वं शिरो अमर्मणः पराहन्नतिथिग्वाय शंस्यं करिष्यन् ॥३॥

    स्वर रहित पद पाठ

    त्वम्। कविम्। चोदयः। अर्कऽसातौ। त्वम्। कुत्साय। शुष्णम्। दाशुषे। वर्क्। त्वम्। शिरः। अमर्मणः। परा। अहन्। अतिथिऽग्वाय। शंस्यम्। करिष्यन् ॥३॥

    ऋग्वेद - मण्डल » 6; सूक्त » 26; मन्त्र » 3
    अष्टक » 4; अध्याय » 6; वर्ग » 21; मन्त्र » 3

    अन्वयः - हे इन्द्र राजँस्त्वमर्कसातौ कविं चोदयस्त्वं कुत्साय दाशुषे च शुष्णं वर्क् त्वममर्मणः शिरः पराऽहन्, अतिथिग्वाय शंस्यं करिष्यन् वर्तसे तस्मात् सत्कर्तव्योऽसि ॥३॥

    पदार्थः -
    (त्वम्) (कविम्) विद्वांसम् (चोदयः) प्रेरय (अर्कसातौ) अन्नादिविभागे (त्वम्) (कुत्साय) वज्राय (शुष्णम्) बलम् (दाशुषे) दात्रे (वर्क्) छिनत्सि (त्वम्) (शिरः) (अमर्मणः) अविद्यमानानि मर्माणि यस्मिँस्तस्य (परा) (अहन्) दूरीकुर्याः (अतिथिग्वाय) योऽतिथीनागच्छति तस्मै (शंस्यम्) प्रशंसनीयं कर्म (करिष्यन्) ॥३॥

    भावार्थः - राजा विद्याविनयादिशुभगुणान् राजकार्येषु योजयेत्, उन्नतिञ्च करिष्यन् विद्यादीनां दाता भूत्वा प्रशंसां प्राप्नुयात् ॥३॥

    इस भाष्य को एडिट करें
    Top