Loading...
ऋग्वेद मण्डल - 6 के सूक्त 27 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 27/ मन्त्र 8
    ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - गावः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    द्व॒याँ अ॑ग्ने र॒थिनो॑ विंश॒तिं गा व॒धूम॑न्तो म॒घवा॒ मह्यं॑ स॒म्राट्। अ॒भ्या॒व॒र्ती चा॑यमा॒नो द॑दाति दू॒णाशे॒यं दक्षि॑णा पार्थ॒वाना॑म् ॥८॥

    स्वर सहित पद पाठ

    द्व॒यान् । अ॒ग्ने॒ । र॒थिनः॑ । विं॒श॒तिम् । गाः । व॒धूऽम॑तः । म॒घऽवा॑ । मह्य॑म् । स॒म्ऽराट् । अ॒भि॒ऽआ॒व॒र्ती । चा॒य॒मा॒नः । द॒दा॒ति॒ । दुः॒ऽनाशा॑ । इ॒यम् । दक्षि॑णा । पा॒र्थ॒वाना॑म् ॥


    स्वर रहित मन्त्र

    द्वयाँ अग्ने रथिनो विंशतिं गा वधूमन्तो मघवा मह्यं सम्राट्। अभ्यावर्ती चायमानो ददाति दूणाशेयं दक्षिणा पार्थवानाम् ॥८॥

    स्वर रहित पद पाठ

    द्वयान्। अग्ने। रथिनः। विंशतिम्। गाः। वधूऽमन्तः। मघऽवा। मह्यम्। सम्ऽराट्। अभिऽआवर्ती। चायमानः। ददाति। दुःऽनाशा। इयम्। दक्षिणा। पार्थवानाम् ॥८॥

    ऋग्वेद - मण्डल » 6; सूक्त » 27; मन्त्र » 8
    अष्टक » 4; अध्याय » 6; वर्ग » 24; मन्त्र » 3

    अन्वयः - हे अग्ने ! ये वधूमन्तो रथिनस्स्युर्यान् द्वयान् मघवा सम्राडभ्यावर्त्ती चायमानो भवान् विंशतिं गा ददाति स त्वं मह्यं या पार्थवानामियं दूणाशा दक्षिणा भवता दत्तास्ति तया तान् प्रीणीहि ॥८॥

    पदार्थः -
    (द्वयान्) प्रजासेनाजनान् (अग्ने) (रथिनः) प्रशस्ता रथा येषां सन्ति ते (विंशतिम्) (गाः) धेनूरिव (वधूमन्तः) प्रशस्ता वध्वो विद्यन्ते येषान्ते (मघवा) प्रशस्तधनवान् (मह्यम्) (सम्राट्) यः सम्यग्राजते (अभ्यावर्ती) यो विजेतुमभ्यावर्त्तते सः (चायमानः) पूज्यमानः (ददाति) (दूणाशा) दुर्लभो नाशो यस्याः सा (इयम्) (दक्षिणा) (पार्थवानाम्) पृथौ विस्तीर्णायां विद्यायां भवानां राज्ञाम् ॥८॥

    भावार्थः - यो राजा कुलीनान् विद्याव्यवहारविचक्षणान् धार्मिकान् राजप्रजाजनानभयान् करोति सोऽतुलां प्रतिष्ठां प्राप्नोतीति ॥८॥ अत्रेन्द्रेश्वराजप्रजागुणवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥ इति सप्तविंशतितमं सूक्तं चतुर्विंशो वर्गश्च समाप्तः ॥

    इस भाष्य को एडिट करें
    Top