ऋग्वेद - मण्डल 6/ सूक्त 30/ मन्त्र 4
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - इन्द्र:
छन्दः - पङ्क्तिः
स्वरः - पञ्चमः
स॒त्यमित्तन्न त्वावाँ॑ अ॒न्यो अ॒स्तीन्द्र॑ दे॒वो न मर्त्यो॒ ज्याया॑न्। अह॒न्नहिं॑ परि॒शया॑न॒मर्णोऽवा॑सृजो अ॒पो अच्छा॑ समु॒द्रम् ॥४॥
स्वर सहित पद पाठस॒त्यम् । इत् । तत् । न । त्वाऽवा॑न् । अ॒न्यः । अ॒स्ति॒ । इन्द्र॑ । दे॒वः । न । मर्त्यः॑ । ज्याया॑न् । अह॑न् । अहि॑म् । प॒रि॒ऽशया॑नम् । अर्णः॑ । अव॑ । अ॒सृ॒जः॒ । अ॒पः । अच्छ॑ । स॒मु॒द्रम् ॥
स्वर रहित मन्त्र
सत्यमित्तन्न त्वावाँ अन्यो अस्तीन्द्र देवो न मर्त्यो ज्यायान्। अहन्नहिं परिशयानमर्णोऽवासृजो अपो अच्छा समुद्रम् ॥४॥
स्वर रहित पद पाठसत्यम्। इत्। तत्। न। त्वाऽवान्। अन्यः। अस्ति। इन्द्र। देवः। न। मर्त्यः। ज्यायान्। अहन्। अहिम्। परिऽशयानम्। अर्णः। अव। असृजः। अपः। अच्छ। समुद्रम् ॥४॥
ऋग्वेद - मण्डल » 6; सूक्त » 30; मन्त्र » 4
अष्टक » 4; अध्याय » 7; वर्ग » 2; मन्त्र » 4
अष्टक » 4; अध्याय » 7; वर्ग » 2; मन्त्र » 4
विषयः - पुनरीश्वरः कीदृशोऽस्तीत्याह ॥
अन्वयः - हे इन्द्र ! यतस्त्वया निर्मितस्सविता परिशयानमहिमहन्नर्णोऽपः समुद्रमच्छाऽवाऽसृजस्तस्मादन्यस्त्वावान् कोऽप्यन्यो ज्यायान्नास्ति न देवो न मर्त्त्यश्चास्तीति तत्सत्यमिदेवास्ति ॥४॥
पदार्थः -
(सत्यम्) सत्सु साधु (इत्) एव (तत्) (न) निषेधे (त्वावान्) त्वया सदृशः (अन्यः) भिन्नः (अस्ति) (इन्द्र) सूर्य्य इव स्वप्रकाशमान जगदीश्वर (देवः) विद्वान् प्रकाशमानो लोको वा (न) (मर्त्यः) (ज्यायान्) महान् (अहन्) हन्ति (अहिम्) व्याप्नुवन्तं मेघम् (परिशयानम्) सर्वतः शयानमिव (अर्णः) उदकम् (अव) (असृजः) सृजति (अपः) जलानि (अच्छा) सम्यक्। अत्र संहितायामिति दीर्घः। (समुद्रम्) सागरमन्तरिक्षं वा ॥४॥
भावार्थः - हे मनुष्या ! येन जगत्पालनायाकर्षको वृष्टिप्रकाशकरः सूर्यो निर्मितो मेघश्च तस्माज्जगदीश्वरेण तुल्यः कोऽपि नास्ति कुतोऽधिक इति तथ्यं विजानीत ॥४॥
इस भाष्य को एडिट करें