ऋग्वेद - मण्डल 6/ सूक्त 34/ मन्त्र 4
अस्मा॑ ए॒तद्दि॒व्य१॒॑र्चेव॑ मा॒सा मि॑मि॒क्ष इन्द्रे॒ न्य॑यामि॒ सोमः॑। जनं॒ न धन्व॑न्न॒भि सं यदापः॑ स॒त्रा वा॑वृधु॒र्हव॑नानि य॒ज्ञैः ॥४॥
स्वर सहित पद पाठअस्मै॑ । ए॒तत् । दि॒वि । अ॒र्चाऽइ॑व । मा॒सा । मि॒मि॒क्षः । इन्द्रे॑ । नि । अ॒या॒मि॒ । सोमः॑ । जन॑म् । न । धन्व॑न् । अ॒भि । सम् । यत् । आपः॑ । स॒त्राः । व॒वृ॒धुः॒ । हव॑नानि । य॒ज्ञैः ॥
स्वर रहित मन्त्र
अस्मा एतद्दिव्य१र्चेव मासा मिमिक्ष इन्द्रे न्ययामि सोमः। जनं न धन्वन्नभि सं यदापः सत्रा वावृधुर्हवनानि यज्ञैः ॥४॥
स्वर रहित पद पाठअस्मै। एतत्। दिवि। अर्चाऽइव। मासा। मिमिक्षः। इन्द्रे। नि। अयामि। सोमः। जनम्। न। धन्वन्। अभि। सम्। यत्। आपः। सत्राः। ववृधुः। हवनानि। यज्ञैः ॥४॥
ऋग्वेद - मण्डल » 6; सूक्त » 34; मन्त्र » 4
अष्टक » 4; अध्याय » 7; वर्ग » 6; मन्त्र » 4
अष्टक » 4; अध्याय » 7; वर्ग » 6; मन्त्र » 4
विषयः - पुनः स राजा किं कुर्य्यादित्याह ॥
अन्वयः - हे विद्वन् ! यस्मिन् दिवीन्द्रे मासा वावृधुर्यज्ञैरर्चेव सत्रा यद्धवनानि वावृधुर्धन्वन्नापो जनं न समभि वावृधुरेतदस्मै सोमोऽहं यथा न्ययामि तथा त्वमेनं मिमिक्षः ॥४॥
पदार्थः -
(अस्मै) (एतत्) (दिवि) कमनीये शुद्धे व्यवहारे (अर्चेव) सत्क्रियेव (मासा) चैत्राद्याः (मिमिक्षः) संसिञ्च (इन्द्रे) दुष्टविदारके राजनि (नि) नितराम् (अयामि) प्राप्नोमि (सोमः) यः सुनोति सः (जनम्) (न) इव (धन्वन्) बालुकायुक्ते स्थले (अभि) (सम्) (यत्) यानि (आपः) जलानि (सत्रा) सत्येन कारणेन (वावृधुः) वर्धन्ते। अत्र व्यत्ययेन परस्मैपदम्। (हवनानि) दानादीनि कर्माणि (यज्ञैः) विद्वत्सत्क्रियाभिः ॥४॥
भावार्थः - अत्रोपमालङ्कारः । हे मनुष्या ! यथा सत्कर्त्तव्यस्य सत्कारो निर्जलदेशे भवस्योदकप्राप्तिः सुखकारिणी भवति तथैव यज्ञानुष्ठानं दिव्यमैश्वर्यं च सर्वेषामानन्दकरे भवतः ॥४॥
इस भाष्य को एडिट करें