ऋग्वेद - मण्डल 6/ सूक्त 34/ मन्त्र 3
न यं हिंस॑न्ति धी॒तयो॒ न वाणी॒रिन्द्रं॒ नक्ष॒न्तीद॒भि व॒र्धय॑न्तीः। यदि॑ स्तो॒तारः॑ श॒तं यत्स॒हस्रं॑ गृ॒णन्ति॒ गिर्व॑णसं॒ शं तद॑स्मै ॥३॥
स्वर सहित पद पाठन । यम् । हिंस॑न्ति । धी॒तयः॑ । न । वाणीः॑ । इन्द्र॑म् । नक्ष॑न्ति । इत् । अ॒भि । व॒र्धय॑न्तीः । यदि॑ । स्तो॒तारः॑ । श॒तम् । यत् । स॒हस्र॑म् । गृ॒णन्ति॑ । गिर्व॑णसम् । शम् । तत् । अ॒स्मै॒ ॥
स्वर रहित मन्त्र
न यं हिंसन्ति धीतयो न वाणीरिन्द्रं नक्षन्तीदभि वर्धयन्तीः। यदि स्तोतारः शतं यत्सहस्रं गृणन्ति गिर्वणसं शं तदस्मै ॥३॥
स्वर रहित पद पाठन। यम्। हिंसन्ति। धीतयः। न। वाणीः। इन्द्रम्। नक्षन्ति। इत्। अभि। वर्धयन्तीः। यदि। स्तोतारः। शतम्। यत्। सहस्रम्। गृणन्ति। गिर्वणसम्। शम्। तत्। अस्मै ॥३॥
ऋग्वेद - मण्डल » 6; सूक्त » 34; मन्त्र » 3
अष्टक » 4; अध्याय » 7; वर्ग » 6; मन्त्र » 3
अष्टक » 4; अध्याय » 7; वर्ग » 6; मन्त्र » 3
विषयः - पुनः स राजा कीदृशो भवतीत्याह ॥
अन्वयः - हे विद्वांसो ! यमिन्द्रमिद् धीतयो न हिंसन्ति यमिन्द्रं वाणीर्न हिंसन्ति यमिन्द्रं वर्धयन्तीर्धीतयो वाणीश्चाभि नक्षन्ति यदि तं गिर्वणसमिन्द्रं स्तोतारो गृणन्ति तर्हि यदस्मै शतं सहस्रं शं प्राप्नोति तदस्मानपि प्राप्नोतु ॥३॥
पदार्थः -
(न) निषेधे (यम्) (हिंसन्ति) (धीतयः) अङ्गुलयः (न) (वाणीः) (इन्द्रम्) पूर्णविद्यं परमैश्वर्य्यं राजानम् (नक्षन्ति) गच्छन्ति प्राप्नुवन्ति। नक्षतीति गतिकर्मा। (निघं०२.१४) (इत्) एव (अभि) (वर्धयन्तीः) उन्नयन्त्यः (यदि) (स्तोतारः) (शतम्) (यत्) (सहस्रम्) असंख्यम् (गृणन्ति) स्तुवन्ति (गिर्वणम्) यो गीर्भिर्वनति संभजति वनुते याचते वा तम् (शम्) सुखम् (तत्) (अस्मै) स्तोत्रे ॥३॥
भावार्थः - हे मनुष्या ! यं शत्रुकृता विरुद्धाः क्रिया निन्दिता वाचश्च न व्यथयन्ति तं हर्षशोकरहितं राजानमतुलं सुखं प्राप्नोति ॥३॥
इस भाष्य को एडिट करें