ऋग्वेद - मण्डल 6/ सूक्त 37/ मन्त्र 5
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - इन्द्र:
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
इन्द्रो॒ वाज॑स्य॒ स्थवि॑रस्य दा॒तेन्द्रो॑ गी॒र्भिर्व॑र्धतां वृ॒द्धम॑हाः। इन्द्रो॑ वृ॒त्रं हनि॑ष्ठो अस्तु॒ सत्वा ता सू॒रिः पृ॑णति॒ तूतु॑जानः ॥५॥
स्वर सहित पद पाठइन्द्रः॑ । वाज॑स्य । स्थवि॑रस्य । दा॒ता । इन्द्रः॑ । गीः॒ऽभिः । व॒र्ध॒ता॒म् । वृ॒द्धऽम॑हाः । इन्द्रः॑ । वृ॒त्रम् । हनि॑ष्ठः । अ॒स्तु॒ । सत्वा॑ । आ । ता । सू॒रिः । पृ॒ण॒ति॒ । तूतु॑जानः ॥
स्वर रहित मन्त्र
इन्द्रो वाजस्य स्थविरस्य दातेन्द्रो गीर्भिर्वर्धतां वृद्धमहाः। इन्द्रो वृत्रं हनिष्ठो अस्तु सत्वा ता सूरिः पृणति तूतुजानः ॥५॥
स्वर रहित पद पाठइन्द्रः। वाजस्य। स्थविरस्य। दाता। इन्द्रः। गीःऽभिः। वर्धताम्। वृद्धऽमहाः। इन्द्रः। वृत्रम्। हनिष्ठः। अस्तु। सत्वा। आ। ता। सूरिः। पृणति। तूतुजानः ॥५॥
ऋग्वेद - मण्डल » 6; सूक्त » 37; मन्त्र » 5
अष्टक » 4; अध्याय » 7; वर्ग » 9; मन्त्र » 5
अष्टक » 4; अध्याय » 7; वर्ग » 9; मन्त्र » 5
विषयः - पुनस्तमेव विषयमाह ॥
अन्वयः - हे मनुष्या ! य इन्द्रः स्थविरस्य वाजस्य दाता य इन्द्रो गीर्भिर्वर्धतां वृद्धमहा इन्द्रो वृत्रमिव शत्रूणां हनिष्ठोऽस्तु यस्तूतुजानः सत्वा सूरिस्ताऽऽपृणति तं सर्वे यूयं सत्कुरुत ॥५॥
पदार्थः -
(इन्द्रः) राजा (वाजस्य) अन्नादेः (स्थविरस्य) स्थूलस्य (दाता) (इन्द्रः) विद्यैश्वर्य्ययुक्तः (गीर्भिः) वाग्भिः (वर्धताम्) (वृद्धमहाः) वृद्धैः पूजितः (इन्द्रः) सूर्य्यः (वृत्रम्) मेघमिव (हनिष्ठः) अतिशयेन हन्ता (अस्तु) (सत्वा) सत्वगुणोपेतः (आ) (ता) तानि धनानि (सूरिः) विद्वान् (पृणति) सुखयति (तूतुजानः) सद्यः कर्त्ता ॥५॥
भावार्थः - हे मनुष्या ! योऽभयस्य दाता विद्यावृद्धाप्तानां सेवको दुष्टानां हन्ता क्षिप्रकारी विद्वान् मनुष्यो भवेत्तमेव यूयं राजानं मन्यध्वमिति ॥५॥ अत्रेन्द्रराजप्रजाकर्मवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥ इति सप्तत्रिंशत्तमं सूक्तं नवमो वर्गश्च समाप्तः ॥
इस भाष्य को एडिट करें