Loading...
ऋग्वेद मण्डल - 6 के सूक्त 4 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 4/ मन्त्र 1
    ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - अग्निः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    यथा॑ होत॒र्मनु॑षो दे॒वता॑ता य॒ज्ञेभिः॑ सूनो सहसो॒ यजा॑सि। ए॒वा नो॑ अ॒द्य स॑म॒ना स॑मा॒नानु॒शन्न॑ग्न उश॒तो य॑क्षि दे॒वान् ॥१॥

    स्वर सहित पद पाठ

    यथा॑ । हो॒तः॒ । मनु॑षः । दे॒वऽता॑ता । य॒ज्ञेभिः॑ । सू॒नो॒ इति॑ । स॒ह॒सः॒ । यजा॑सि । ए॒व । नः॒ । अ॒द्य । स॒म॒ना । स॒मा॒नान् । उ॒शन् । अ॒ग्ने॒ । उ॒श॒सः । य॒क्षि॒ । दे॒वान् ॥


    स्वर रहित मन्त्र

    यथा होतर्मनुषो देवताता यज्ञेभिः सूनो सहसो यजासि। एवा नो अद्य समना समानानुशन्नग्न उशतो यक्षि देवान् ॥१॥

    स्वर रहित पद पाठ

    यथा। होतः। मनुषः। देवऽताता। यज्ञेभिः। सूनो इति। सहसः। यजासि। एव। नः। अद्य। समना। समानान्। उशन्। अग्ने। उशतः। यक्षि। देवान् ॥१॥

    ऋग्वेद - मण्डल » 6; सूक्त » 4; मन्त्र » 1
    अष्टक » 4; अध्याय » 5; वर्ग » 5; मन्त्र » 1

    अन्वयः - हे सहसः सूनो होतरुशन्नग्ने ! यथा मनुषो यज्ञेभिर्देवताता यजासि तथा त्वमद्य समानानुशतो नोऽस्मान् देवान् समनैवा यक्षि ॥१॥

    पदार्थः -
    (यथा) (होतः) दातः (मनुषः) मनुष्यः (देवताता) दिव्ये यज्ञे (यज्ञेभिः) सङ्गतैः साधनोपसाधनैः (सूनो) अपत्य (सहसः) बलिष्ठस्य (यजासि) यजेत् (एवा) अत्र निपातस्य चेति दीर्घः। (नः) अस्मान् (अद्य) (समना) सङ्ग्रामे। विभक्तेराकारादेशः। समनमिति सङ्ग्रामनाम। (निघं०२.१७)(समानान्) सदृशान् (उशन्) कामयमान (अग्ने) अग्निरिव विद्वन् (उशतः) कामयमानान् (यक्षि) सङ्गच्छस्व (देवान्) विदुषः ॥१॥

    भावार्थः - अत्रोपमालङ्कारः । यथा विद्वांस ऋत्विजः साङ्गोपाङ्गैः साधनैर्यज्ञमलङ्कुर्वन्ति तथैव शूरवीरैर्बलिष्ठैर्योद्धृभिर्विद्वद्भी राजानः सङ्ग्रामं विजयेरन् ॥१॥

    इस भाष्य को एडिट करें
    Top