Loading...
ऋग्वेद मण्डल - 6 के सूक्त 3 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 3/ मन्त्र 8
    ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - अग्निः छन्दः - भुरिक्पङ्क्ति स्वरः - पञ्चमः

    धायो॑भिर्वा॒ यो युज्ये॑भिर॒र्कैर्वि॒द्युन्न द॑विद्यो॒त्स्वेभिः॒ शुष्मैः॑। शर्धो॑ वा॒ यो म॒रुतां॑ त॒तक्ष॑ ऋ॒भुर्न त्वे॒षो र॑भसा॒नो अ॑द्यौत् ॥८॥

    स्वर सहित पद पाठ

    धायः॑ऽभिः । वा॒ । यः । युज्ये॑भिः । अ॒र्कैः । वि॒द्युत् । न । द॒वि॒द्यो॒त् । स्वेभिः॑ । शुष्मैः॑ । शर्धः॑ । वा॒ । यः । म॒रुता॑म् । त॒तक्ष॑ । ऋ॒भुः । न । त्वे॒षः । र॒भ॒सा॒नः । अ॒द्यौ॒त् ॥


    स्वर रहित मन्त्र

    धायोभिर्वा यो युज्येभिरर्कैर्विद्युन्न दविद्योत्स्वेभिः शुष्मैः। शर्धो वा यो मरुतां ततक्ष ऋभुर्न त्वेषो रभसानो अद्यौत् ॥८॥

    स्वर रहित पद पाठ

    धायःऽभिः। वा। यः। युज्येभिः। अर्कैः। विद्युत्। न। दविद्योत्। स्वेभिः। शुष्मैः। शर्धः। वा। यः। मरुताम्। ततक्ष। ऋभुः। न। त्वेषः। रभसानः। अद्यौत् ॥८॥

    ऋग्वेद - मण्डल » 6; सूक्त » 3; मन्त्र » 8
    अष्टक » 4; अध्याय » 5; वर्ग » 4; मन्त्र » 3

    अन्वयः - हे विद्वन् ! यो धायोभिर्युज्येभिः स्वेभिः शुष्मैर्गुणैर्वा विद्युन्न स्वेभिरर्कैर्दविद्योद्यो वा मरुतां शर्ध ऋभुर्न ततक्ष त्वेषो रभसानो नाद्यौत्स एव राजा संस्थापनीयः ॥८॥

    पदार्थः -
    (धायोभिः) धारकैर्गुणैर्वा (वा) (यः) (युज्येभिः) योक्तव्यैः (अर्कैः) अर्चनीयैस्सत्कारहेतुभिः (विद्युत्) (न) इव (दविद्योत्) प्रकाशते (स्वेभिः) स्वकीयैः (शुष्मैः) बलैः (शर्धः) बलम् (वा) (यः) (मरुताम्) मनुष्याणाम् (ततक्ष) तीक्ष्णीकरोति (ऋभुः) मेधावी (न) इव (त्वेषः) देदीप्यमानः (रभसानः) वेगवान् (अद्यौत्) प्रकाशते ॥८॥

    भावार्थः - अत्रोपमालङ्कारः । हे मनुष्या ! यो विद्युद्वत्प्रतापी बलिष्ठः संयोग-वियोगविद्यायां विचक्षणो मेधावी विद्वान् धर्म्मात्मा जितेन्द्रियः पितृवत्प्रजापालनप्रियः क्षत्रियः स्यात्स एव राजा भवितुमर्हेत् ॥८॥ अत्राग्निविद्वद्गुणवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥ इति तृतीयं सूक्तं चतुर्थो वर्गश्च समाप्तः ॥

    इस भाष्य को एडिट करें
    Top