Loading...
ऋग्वेद मण्डल - 6 के सूक्त 40 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 40/ मन्त्र 3
    ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - इन्द्र: छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    समि॑द्धे अ॒ग्नौ सु॒त इ॑न्द्र॒ सोम॒ आ त्वा॑ वहन्तु॒ हर॑यो॒ वहि॑ष्ठाः। त्वा॒य॒ता मन॑सा जोहवी॒मीन्द्रा या॑हि सुवि॒ताय॑ म॒हे नः॑ ॥३॥

    स्वर सहित पद पाठ

    सम्ऽइ॑द्धे । अ॒ग्नौ । सु॒ते । इ॒न्द्र॒ । सोमे॑ । आ । त्वा॒ । व॒ह॒न्तु॒ । हर॑यः । वहि॑ष्ठाः । त्वा॒ऽय॒ता । मन॑सा । जो॒ह॒वी॒मि॒ । इन्द्र॑ । आ । या॒हि॒ । सु॒वि॒ताय॑ । म॒हे । नः॑ ॥


    स्वर रहित मन्त्र

    समिद्धे अग्नौ सुत इन्द्र सोम आ त्वा वहन्तु हरयो वहिष्ठाः। त्वायता मनसा जोहवीमीन्द्रा याहि सुविताय महे नः ॥३॥

    स्वर रहित पद पाठ

    सम्ऽइद्धे। अग्नौ। सुते। इन्द्र। सोमे। आ। त्वा। वहन्तु। हरयः। वहिष्ठाः। त्वाऽयता। मनसा। जोहवीमि। इन्द्र। आ। याहि। सुविताय। महे। नः ॥३॥

    ऋग्वेद - मण्डल » 6; सूक्त » 40; मन्त्र » 3
    अष्टक » 4; अध्याय » 7; वर्ग » 12; मन्त्र » 3

    अन्वयः - हे इन्द्र ! वहिष्ठा हरयो समिद्धेऽग्नौ सुते सोमे त्वा त्वामाऽऽवहन्तु। हे इन्द्र ! यंत्वायता मनसाऽहं त्वां जोहवीमि स त्वं महे सुविताय न आ याहि ॥३॥

    पदार्थः -
    (समिद्धे) सम्यक् प्रदीप्ते (अग्नौ) पावके (सुते) निष्पन्ने (इन्द्र) परमैश्वर्यप्रद (सोमे) उक्ते महौषधिरसे (आ) (त्वा) त्वाम् (वहन्तु) प्रापयन्तु (हरयः) अश्वा इव मनुष्याः (वहिष्ठाः) अतिशयेन वोढारः (त्वायता) त्वां प्राप्तेन (मनसा) विज्ञानेन (जोहवीमि) भृशमाह्वयामि (इन्द्र) दुःखदारिद्र्यविदारक (आ) (याहि) समन्तादागच्छ (सुविताय) प्रेरणायै (महे) महते (नः) अस्मान् ॥३॥

    भावार्थः - हे राजन् ! त्वमुत्तमैर्मनुष्यैस्सह वैद्यान्सुपरीक्ष्योत्तमान् रसानन्नानि च सम्पाद्य भुक्त्वैक्यमतं कृत्वा प्रजाजनान् रक्षित्वा महदैश्वर्यं प्राप्याऽस्मानपि श्रीमतः सम्पादय ॥३॥

    इस भाष्य को एडिट करें
    Top