Loading...
ऋग्वेद मण्डल - 6 के सूक्त 52 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 52/ मन्त्र 2
    ऋषिः - ऋजिश्वाः देवता - विश्वेदेवा: छन्दः - त्रिष्टुप् स्वरः - धैवतः

    अति॑ वा॒ यो म॑रुतो॒ मन्य॑ते नो॒ ब्रह्म॑ वा॒ यः क्रि॒यमा॑णं॒ निनि॑त्सात्। तपूं॑षि॒ तस्मै॑ वृजि॒नानि॑ सन्तु ब्रह्म॒द्विष॑म॒भि तं शो॑चतु॒ द्यौः ॥२॥

    स्वर सहित पद पाठ

    अति॑ । वा॒ । यः । म॒रु॒तः॒ । मन्य॑ते । नः॒ । ब्रह्म॑ । वा॒ । यः । क्रि॒यमा॑णम् । निनि॑त्सात् । तपूं॑षि । तस्मै॑ । वृ॒जि॒नानि॑ । स॒न्तु॒ । ब्र॒ह्म॒ऽद्विष॑म् । अ॒भि । तम् । शो॒च॒तु॒ । द्यौः ॥


    स्वर रहित मन्त्र

    अति वा यो मरुतो मन्यते नो ब्रह्म वा यः क्रियमाणं निनित्सात्। तपूंषि तस्मै वृजिनानि सन्तु ब्रह्मद्विषमभि तं शोचतु द्यौः ॥२॥

    स्वर रहित पद पाठ

    अति। वा। यः। मरुतः। मन्यते। नः। ब्रह्म। वा। यः। क्रियमाणम्। निनित्सात्। तपूंषि। तस्मै। वृजिनानि। सन्तु। ब्रह्मऽद्विषम्। अभि। तम्। शोचतु। द्यौः ॥२॥

    ऋग्वेद - मण्डल » 6; सूक्त » 52; मन्त्र » 2
    अष्टक » 4; अध्याय » 8; वर्ग » 14; मन्त्र » 2

    अन्वयः - हे मरुतो ! यो नोऽस्मानति मन्यते वा यः क्रियमाणं ब्रह्माऽति मन्यते वा निनित्सात् तं ब्रह्मद्विषं द्यौरभि शोचतु तस्मै तपूंषि वृजिनानि सन्तु ॥२॥

    पदार्थः -
    (अति) (वा) (यः) (मरुतः) मनुष्याः (मन्यते) (नः) अस्मान् (ब्रह्म) धनम् (वा) (यः) (क्रियमाणम्) (निनित्सात्) निन्दितुमिच्छेत् (तपूंषि) तेजोमयानि (तस्मै) (वृजिनानि) बाधकानि (सन्तु) (ब्रह्मद्विषम्) धनस्य द्वेष्टारम् (अभि) (तम्) (शोचतु) (द्यौः) कामयमानो विद्वान् ॥२॥

    भावार्थः - हे विद्वांसो ! ये मनुष्या अतिमानं धनादिद्वेषमाप्तनिन्दाञ्च कुर्वन्ति ते दण्डनीया निन्दनीयाः शोचनीयाश्च सन्ति ॥२॥

    इस भाष्य को एडिट करें
    Top