ऋग्वेद - मण्डल 6/ सूक्त 62/ मन्त्र 2
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - अश्विनौ
छन्दः - भुरिक्पङ्क्ति
स्वरः - पञ्चमः
ता य॒ज्ञमा शुचि॑भिश्चक्रमा॒णा रथ॑स्य भा॒नुं रु॑रुचू॒ रजो॑भिः। पु॒रू वरां॒स्यमि॑ता॒ मिमा॑ना॒ऽपो धन्वा॒न्यति॑ याथो॒ अज्रा॑न् ॥२॥
स्वर सहित पद पाठता । य॒ज्ञम् । आ । शुचि॑ऽभिः । च॒क्र॒मा॒णा । रथ॑स्य । भा॒नुम् । रु॒रु॒चुः॒ । रजः॑ऽभिः । पु॒रु । वरां॒सि । अमि॑ता । मिमा॑ना । अ॒पः । धन्वा॑नि । अति॑ । या॒थः॒ । अज्रा॑न् ॥
स्वर रहित मन्त्र
ता यज्ञमा शुचिभिश्चक्रमाणा रथस्य भानुं रुरुचू रजोभिः। पुरू वरांस्यमिता मिमानाऽपो धन्वान्यति याथो अज्रान् ॥२॥
स्वर रहित पद पाठता। यज्ञम्। आ। शुचिऽभिः। चक्रमाणा। रथस्य। भानुम्। रुरुचुः। रजःऽभिः। पुरु। वरांसि। अमिता। मिमाना। अपः। धन्वानि। अति। याथः। अज्रान् ॥२॥
ऋग्वेद - मण्डल » 6; सूक्त » 62; मन्त्र » 2
अष्टक » 5; अध्याय » 1; वर्ग » 1; मन्त्र » 2
अष्टक » 5; अध्याय » 1; वर्ग » 1; मन्त्र » 2
विषयः - पुनस्तौ कीदृशावित्याह ॥
अन्वयः - हे अध्यापकोपदेशकौ ! युवां यौ शुचिभिर्यज्ञमा चक्रमाणा रथस्य भानुं प्रदीपकौ रजोभिः पुर्वमिता वरांसि मिमानाऽपो धन्वान्यज्रान् याथो याभ्यां सर्वाणि रुरुचुस्ताऽति याथः ॥२॥
पदार्थः -
(ता) तौ (यज्ञम्) सर्वं सङ्गतं व्यवहारम् (आ) समन्तात् (शुचिभिः) पवित्रैर्गुणैः (चक्रमाणा) क्रमयितारौ (रथस्य) रमणीयस्य जगतः (भानुम्) प्रकाशकम् (रुरुचुः) रोचन्ते (रजोभिः) परमाणुभिर्लोकैर्वा सह (पुरु) पुरूणि बहूनि (वरांसि) वरणीयानि वस्तूनि (अमिता) अमितान्यपरिमितानि (मिमाना) निर्मातारौ (अपः) जलानि (धन्वानि) अन्तरिक्षस्थानि (अति) (याथः) प्राप्नुथः (अज्रान्) प्रक्षिप्तान् ॥२॥
भावार्थः - हे मनुष्या ! यदि यूयं वायुविद्युतौ यथावद्विजानीत तर्ह्यमितमानन्दं प्राप्नुयात ॥२॥
इस भाष्य को एडिट करें