Loading...
ऋग्वेद मण्डल - 6 के सूक्त 62 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 62/ मन्त्र 1
    ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - अश्विनौ छन्दः - भुरिक्पङ्क्ति स्वरः - पञ्चमः

    स्तु॒षे नरा॑ दि॒वो अ॒स्य प्र॒सन्ता॒ऽश्विना॑ हुवे॒ जर॑माणो अ॒र्कैः। या स॒द्य उ॒स्रा व्युषि॒ ज्मो अन्ता॒न्युयू॑षतः॒ पर्यु॒रू वरां॑सि ॥१॥

    स्वर सहित पद पाठ

    स्तु॒षे । नरा॑ । दि॒वः । अ॒स्य । प्र॒ऽसन्ता॑ । अ॒श्विना॑ । हु॒वे॒ । जर॑माणः । अ॒र्कैः । या । स॒द्यः । उ॒स्रा । वि॒ऽउषि॑ । ज्मः । अन्ता॑न् । युयू॑षतः । परि॑ । उ॒रु । वरां॑सि ॥


    स्वर रहित मन्त्र

    स्तुषे नरा दिवो अस्य प्रसन्ताऽश्विना हुवे जरमाणो अर्कैः। या सद्य उस्रा व्युषि ज्मो अन्तान्युयूषतः पर्युरू वरांसि ॥१॥

    स्वर रहित पद पाठ

    स्तुषे। नरा। दिवः। अस्य। प्रऽसन्ता। अश्विना। हुवे। जरमाणः। अर्कैः। या। सद्यः। उस्रा। विऽउषि। ज्मः। अन्तान्। युयूषतः। परि। उरु। वरांसि ॥१॥

    ऋग्वेद - मण्डल » 6; सूक्त » 62; मन्त्र » 1
    अष्टक » 5; अध्याय » 1; वर्ग » 1; मन्त्र » 1

    अन्वयः - हे मनुष्या ! जरमाणोऽहमर्कैर्या व्युष्युस्रा प्रसन्ता नराश्विनाऽस्य दिवो ज्मोऽन्तानुरु वरांसि सद्यः परि युयूषतस्तौ स्तुषे हुवे तथैतौ स्तुत्वा यूयमपि गृह्णीत ॥१॥

    पदार्थः -
    (स्तुषे) स्तौमि (नरा) नरौ नायकौ (दिवः) प्रकाशस्य (अस्य) (प्रसन्ता) विभाजकौ (अश्विना) व्यापनशीले द्यावान्तरिक्षे (हुवे) गृह्णामि (जरमाणः) स्तुवन् (अर्कैः) मन्त्रैः (या) यौ (सद्यः) (उस्रा) रश्मयो विद्यन्ते ययोस्तौ (व्युषि) विशेषेण दाहे (ज्मः) पृथिव्याः। ज्म इति पृथिवीनाम। (निघं०१.१) (अन्तान्) समीपस्थान् (युयूषतः) संविभाजयतः (परि) सर्वतः (उरु) बहु (वरांसि) उत्तमानि वस्तूनि ॥१॥

    भावार्थः - हे मनुष्या ! येऽन्तरिक्षविद्युतौ सर्वाधिकरणे सर्वपदार्थान्तःस्थे वर्त्तेते तयोर्मध्ये विद्युद्विभाजिकाऽन्तरिक्षं चाधारो वर्त्तते तयोर्गुणान् सर्वे जानन्तु ॥१॥

    इस भाष्य को एडिट करें
    Top